SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली क्रमणसमय एतत्प्रायश्चित्तमालोचयिष्यते । तत्राऽपि प्रतिक्रमणं समाप्य गुरुस्तत्पापं यदा नाऽऽलोचितवांस्तदा शिष्यो मनसिदध्यौ- एतस्य गुरोः शिरसि पञ्चेन्द्रियहत्याऽलगत् संयमश्चाऽस्य दूषितो भवति । गुरुर्वृद्धत्वान्न बुध्यते, अतो मया तद्विजानताऽसौ दोषमुक्तो विधातव्यः, नो चेन्ममाऽप्यतिचारो लगिष्यतीति विचार्यतत्रावसरे शिष्यस्तत्स्मारितवान् । तदा गुरुमहाकोपं कृत्वा निजरजोहरणं गृहीत्वाऽतिवेगेन शिष्यं ताडयितुमधावत् । धिक् कोपं ! येन रजोहरणेन जीवा रक्ष्यन्ते तेनैव स शिष्यजीवं घातयितुमैच्छत् । तत्रावसरे गुरुभयेन सोऽन्यत्र पलायितः, तत्पृष्ठ धावन् स गुरुर्निशि तमो-बाहुल्यात्केनचिदपि स्तम्भेन मर्मणि हतो दुर्ध्यानेन मृत्वा ज्योतिषदेवोऽभवत् । ततश्च्युत्वा चण्डकौशिकनामा तापसोऽभूत्, सफलपुष्पमयमुपवनमकरोत् । तत्र क्रीडन्तो नृपकुमाराः प्रत्यहं तमुपदुद्रुवुः, निवारिता अपि दुरास्ते यदा न न्यवर्तन्त, तदा स तापसः कुठारमादाय तान्प्रत्यधावत् । तेषु पलायितेषु कर्मयोगात्कुत्रापि गर्ने पतन कुठारेण वक्षसि हतस्तापसो दुर्ध्यानेन मृत्वा महाकायो भीषणो नागोऽभूत् । तस्य विषज्वाला महती जाता स च लोकान् दृष्टिमात्रेणाऽपि भस्मीकुर्वन्नाऽऽसीत् । ततो लोकास्तन्मार्गमप्यत्यजन् । अथैकदा तेनैव मार्गेण गच्छन्महावीरस्वामी सर्पभीतिं निगदद्विर्लोकः प्रतिषेधितोऽपि तस्य बिलोपरि कायोत्सर्गध्याने तस्थिवान् । तदा बिलाद् बहिरागतश्चण्डकौशिको महाहिर्विषज्वालामुद्वमन् वीरप्रमोश्चरणं ददंश, परंस निश्चल एवातिष्ठत् । किन्तुतस्य दष्टप्रदेशतो 192
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy