SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ श्रीमद्विजयभूपेन्द्रसूरीश्वर-गुरुगुणाष्टकम् (इन्द्रवजाछन्दसि) दुष्प्राप्यमत्रार्यकुले नरत्वं, संप्राप्य चाहदूषमिद्धतत्त्वम् । चन्द्रावदातं भुवि सुप्रभातं, भूपेन्द्रसूरिं सुभजन्तु भव्याः! ॥१॥ विद्योतिता येन धिया धरित्री, पात्रीकूता भूरिजनाः शिवस्य । तं सूरिभूपेन्द्रमनन्तकीर्ति, भूपेन्द्रसूरिं सुभजन्तु भव्याः! ॥२॥ क्षान्त्या क्षितिं योऽजयदब्धयश्च, गाम्भीर्यतो येन कृता अनुच्चैः । शान्त्या च सन्तस्तमनल्पबोधं, भूपेन्द्रसूरिं सुभजन्तु भव्याः! ॥३॥ यत्कीर्तिमालानिभपाठशाला, -स्तीखीनगर्यादिषु जैनबालाः । संश्रित्य यश्लोकमभिष्टुवन्ति, भूपेन्द्रसूरिं सुभजन्तु भव्याः! ॥४॥ याचां विलासैः सुधियां धियोऽपि, चित्रीकृताः संसदि येन भूरि । तं लोकमान्यं नितरां वदान्यं, भूपेन्द्रसूरिं सुभजन्तु भव्याः! ॥५॥ जाज्वल्यमाने महसां सुपुञ्ज, विद्योतते भव्यजनो यदीये । दन्दह्यते द्वेषिपतङ्गिका तं, भूपेन्द्रसूरिं सुभजन्तु भव्याः! ॥६॥ यं कल्पवृक्षाभमुपेत्य भव्याः, श्रेयःफलं प्रापुरमन्दभावैः ।। गेयं सतां सूरिशिरोमणिं तं, भूपेन्द्रसूरिं सुभजन्तु भव्याः! ॥७॥ यत्स्थापिताश्चैत्यपताकिकास्तं, यातेरिता अगुलिसंज्ञयेव । आकारयन्तीव जिनं दिदृशून्, भूपेन्द्रसूरिं सुभजन्तु भव्याः! ॥८॥ प्रभाते पठेदष्टकं यः सुभक्त्या, गुरोः श्रीलभूपेन्द्रसूरेश्च नित्यम् । इहामुत्र कल्याणसौख्यं प्रयाति, विशालं कुलं स्वर्गलोकञ्च नूनम् ॥ -मुनि-कल्याणविजयः 1. इद्धं (प्रकाशित) तत्त्वं येन स इद्धतत्त्वस्तम् । 6
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy