SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली विशेषतः प्रार्थितवती- हे राजन् ! यथा मत्पुत्र एव विजयेत नारदोक्तमलीकं भवेत् तथा सदसि त्वया वाच्यम् । तदा राजाऽचिन्तयत्-अहो ! गुरुपत्नी मे मान्याऽस्ति । सैवं भाषते यद्यहमेतदुक्त्याऽलीकं वदिष्यामि, तर्हि मम महाऽपकीर्तिः "सत्यं वदति नाऽनृतं कदापीति" यशोऽपि न स्थास्यति । मया कदापि स्फटिकमुज्ज्वलमेतत्सिंहासनमुपविश्य मृषा नाऽवादि । तत्कथमेतत्कृते वक्तव्यम् ? अहो! सम्प्रति व्याघ्रदुस्तटीवत्सङ्कटो मे समुपस्थितः । इत्यालोच्य स राजा तामवादीत्-अयि मातः ! अहं कस्याऽपि कृते मृषा न वदामि, न वदिष्यामि । अन्यद्यदादिशसि तदहं करिष्यामि, इति नृपोक्तं श्रुत्वा सोक्तवती- राजन् ! यदि मत्पुत्रपक्षं न विधास्यसे तर्हि स मरिष्यति अहमपि मृत्वा स्वहत्यां ते दास्यामि,। ततः परवशो नृपोऽवदत्- हे मातः! त्वं याहि, पर्वतस्य साहाय्यं त्वद्वचसा करिष्यामि । तदनु हृष्टा सा गृहमाययौ सर्वमपि पर्वतमवादीत् । अथ द्वितीयदिने पर्वतनारदौ नृपसदसि समैतां । राजाऽविदितवृत्त इवाऽऽगमनप्रयोजनं तावपृच्छत् । तदा पर्वतोऽवदत्- हे राजेन्द्र ! त्वमावयोः सहाध्यायी विद्वानसि । अत आवां विवदमानौ भवत्सविधे समागच्छावः । 'अज' शब्दस्य छाग इत्यर्थो मयोच्यते नारदश्च त्रैवार्षिको व्रीहिस्तदर्थ इत्यालपति, कः साधीयानर्थ इति भवता वाच्यः ? राजा किञ्चिद्विचार्य जगाद | अहन्तु पुरा गुरुणोक्तं तदर्थं त्रैवार्षिकं व्रीहिमजञ्चापि स्मरामीति मिश्रवचनं जगाद । तदा नारदोऽवदत्-त्वमपि जगति सत्यव्रती भूत्वा मृषा भाषसे,आश्चर्यमेतत् - 177
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy