SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली लक्ष्मीदेव्या अति स्निग्धा सखी, ज्ञानस्य सहचरी, विरतिलक्षणा या राज्ञी तस्याः केलिः, शान्तराजस्य सदनं, सर्वेषां सद्गुणानां च निदानमीदृशीं जीवदयां मनसि धृत्वा ये जीवानवन्ति ते निश्चयेन मुक्तिं लभन्ते । अतो हे भव्यजीवाः ! एषा जीवदया बहुगुणा विद्यते । एनामवलम्ब्य बहवो जीवाः संसारसागरमतरन् तरिष्यन्ति तरन्ति च। "सचे पाणा सव्वे भूआ, सव्वे सत्ता सवे जीवा न हंतव्वा' इति सकलतीर्थकृतामादेशः सर्वैरेव भव्यजीवैः सादरेणातिमान्यः ||५|| निज शरण परेवो शेनथी जेण राख्यो, १६षटदशमजिने ते ए दया धर्म दाख्यो । तिह हृदय धरीने जो दया धर्म कीजे, भवजलधि तरीजे दुःख दूरे करीजे अन्यच्च-यथा षोडशस्तीर्थङ्करः शान्तिनाथो भगवान् निजशरणमागतं पारावतमवन् दयाधर्ममदर्शयत् । इत्थमन्योऽपि कोऽपि दयालुर्दयासु वर्तिष्यते, स भवप्रपञ्चान्मोक्ष्यते । इति सर्वतः प्रधाना दया विधेयैव ||५६|| ४५-कपोतदयापालनोपरि मेघरथराजस्य प्रबन्धःपुरा श्रीशान्तिनाथजीवो दशमे भवे मेघरथाऽभिधो राजाऽभूत् । स चैकदा सदसि सुखासीनः समागतं वेपमानमेकं पारावतमपश्यत् । तदनु कपोतघातुकं सिञ्चानकं पक्षिणमागतं दृष्टवान् । तत्समये स श्येनपक्षी नृगिरा नृपमेवमवदत्- हे राजन् ! 173
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy