SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली किञ्चाऽसावतिभयङ्करो हालाहल इव जनान् व्यामोहयति । तथा मानाहिना दष्टा जना अचेतना इव जायन्ते । अतो मानमुक्ता लोका धन्या गीयन्ते । दुर्योधनो बलीयान् गुणवानप्यहङ्कारवशादेव सपरिवारो विनाशमगात् ।।५०|| ४२-अथ मानेन विनाशोपरि दुर्योधनस्य कथा __ तथाहि-पुरा पञ्च पाण्डवा दुर्योधनाद्यैः सह कुरुदेशस्याऽधिपा आसन् । परमेकदा मायाविना दुर्योधनेन द्यूतक्रीडने कपटेन पाण्डवाञ्जित्वा तान् वनवासिनो विधाय राज्यमाददे | अथ पाण्डवा अपि वनवासप्रतिज्ञामापूर्य द्वारिकामगुः । तत्र ते कृष्णेन सत्कृताः सुखेन तस्थुः । तदनु श्रीकृष्णो दूतेन सुयोधनमेवमचीकथत्- भो दुर्योधन ! पाण्डवा वनवासाऽवसानेऽत्राऽऽगताः सन्ति, तद्राज्यं समर्पय, नो चेद्युद्धाय सज्जीभव । इति दूतोक्तमाकर्ण्य स दुर्योधनो दूतमवदत्- भो दूत ! मदुक्तमशेष कृष्णस्य वाच्यं यथावत्- ते पाण्डवाः सिंहान्मृगा इव मत्तो राज्यं जिघृक्षन्ति किम् ? तेषामेषाऽऽशा शशशृङ्गायमाणा प्रतिभाति तांस्त्वहं तृणाय मन्ये । तदर्थं समराडम्बरोऽपि मे त्रपाकर एवाऽस्ति । तथापि ते यदि मत्तो राज्यमभिलषन्ति तर्हि समरसज्जितमेव मामवगच्छ । इत्युक्त्वा विसृष्टो दूतो द्वारिकामागत्य यथावत् कृष्णमवोचत । तच्छत्वा तदैव श्रीकृष्णं सारथीकृत्य पाण्डवाः प्रचेलुः । तानागतान् वीक्ष्य कौरवा अपि ससैन्यास्तदभिमुखं ययुः । ततो युद्धे प्रवर्तमानेऽखर्वगर्वधरं सुयोधनं ससैन्यं निहत्य ते पाण्डुनन्दना राज्यं जगृहुः | श् -167
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy