SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ जैनाचार्य - श्रीमद्विजयराजेन्द्रसूरीश्वर गुरुगुणाष्टकम् - ( इन्द्रवज्रावृत्ते ) - ॥१॥ ॥४॥ यस्य स्वरूपं प्रवरं प्रसिद्धं, यो भव्यवृन्देन सदैव मान्यः । भट्टारक श्रीविजयादियुक् तं राजेन्द्रसूरिं सुगुरुं हि वन्दे आद्यन्तपर्यन्तसुयोगबुद्ध्या, निर्दोषचारित्रविभूषितात्मा । शीतादिदुःखान्यजयच्च तस्माद्, राजेन्द्रसूरिं जयिनं हि मन्ये ॥२॥ राजेन्द्रकोषाभिधकोशमुख्यो - ऽप्येवञ्च शास्त्राण्यपराण्यकारि । ज्ञानं तथा ध्यानममुष्य सत्यं, राजेन्द्रसूरिं विबुधं हि सेवे यस्योपदेशो हृदयंगमोऽभूद्, भव्यात्मनि द्योतकरप्रदीपः । षड्दर्शनानां स्फुटबोधकर्ता, राजेन्द्रसूरिं तरणिं हि भेजे सत्यप्रतिष्ठा महतीह लोके, ज्ञानक्रियाद्यैः सुगुणैस्तु यस्य । आबालवृद्धा हि विदन्ति सर्वे, राजेन्द्रसूरिं कृतिनं हि नौमि ॥५॥ अर्हत्प्रतिष्ठाञ्जनकानि हर्ष - गोद्यापनानि व्रतशालिनाञ्च । लेभे सुकीर्तिं ह्यति कारयित्वा राजेन्द्रसूरिं गुणिनं समीडे ॥६॥ सर्वत्र वादे जयमेव लेभे, भूयश्च वर्षर्तुषु धर्मकार्यम् । इत्थं विहारेऽपि सुकीर्तिमाप, राजेन्द्रसूरिं प्रवरं हि जाने जातीयमुद्धारकमत्र चक्रे, चीरोलकादौ सुविदन्ति सर्वे । एवं प्रजानामुपकारकोऽभूद्, राजेन्द्रसूरिं सुतरिं हि बुध्ये लेभे यो जन्म दीक्षां च भरत उदये साऽऽज्ञया हेमपार्थे, चाऽऽहोरेऽस्यां सुपूज्यो व्रतसमितियुतो जावरापत्तनेऽभूत् । श्रीमद्राजेन्द्रसूरिस्त्विति विजययुतः ख्यातितामाप सर्वान्, स स्वर्गी राजदुर्गे दिशतु शमिति मे वक्ति साधुर्गुलाबः 3 ॥७॥ મેળા usu
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy