SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली | | प्रभोः प्रत्युत्तरमनासाद्य प्रभोरुपोषणमस्तीति जानन् गृहमागात् । सम्पूर्णेऽथ तत्र व्रते प्रगे समागतः स प्रभुं वन्दनानन्तरमभ्यार्थयत्प्रभो ! अद्य पारणाकृते मद्वेश्म पवित्रीकृत्य लाभो देय इति । एवं विज्ञप्तिं कृत्वा हृष्टः स गृहमेत्य लघुकपाटसमीपे भगवदागमं प्रतीक्षमाणस्तस्थौ । अयमागच्छति प्रभुरिति भावयन् चिरं तत्रैव तस्थौ । निर्ममः प्रभुस्तु कस्यचिदभिनवपूर्णश्रेष्ठिनो गृहमागात् । धर्मानुरागमनधिगच्छन् यथा तथा भिक्षु मत्वाऽवाऽशनकृते पाचितं माषं स तस्मै वीरस्वामिने दत्तवान्, तावत्तत्र गगने देवदुन्दुभिर्दध्वान | तच्छ्रुत्वा प्रभुणा क्वचिद्गृहे पारणाऽकारीति तेनाऽवेदि । तदैव भावनावृद्धिस्तस्य च्छिन्नाऽभूत् । परं पूर्वमेव स भगवदागमं प्रतीक्षमाणो भावनां भावयन् द्वादशाऽच्युतदेवलोकपर्यन्तां भावना - श्रेणीमारूढवान् । यदि किञ्चित्कालमग्रे सा भावना तस्य तिष्ठेत्तर्हि केवलमप्याप्नु - यात् । परन्तु देवदुन्दुभिध्वनिमाकर्ण्य सा भावना तदैव त्रुटिता । अतोऽग्रे तस्य भावनावृद्धिर्नाऽभूत् । इति हेतोर्भावनामाहात्म्यात्स जीर्णश्रेष्ठी मृत्वा द्वादशे देवलोके समुत्पेदे । इत्थं भावनायाः सर्वतः प्राधान्यं महत्त्वं चाऽवगन्तव्यं सर्वैर्भव्यजनैः । ३९ - अथ पुनरपि भावनाविषये वल्कलचीरिण: प्रबन्धः - यथा-पोतनपुरनगरे प्रसन्नचन्द्रस्य राज्ञो भ्राताऽश्वारूढः क्रीडार्थमुद्यानं व्रजन्नुन्मार्गेण गच्छताऽश्वेन बहु दूरं नीतः सायमपि गेहं नाऽऽगात् । तदा राजा लोकैस्तस्य शुद्धिं सर्वतः कारयामास, परं क्वाऽपि 157
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy