SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली कीदृशी दुःखिनी स्यात् ?। अद्य गमनसमये तया भणितोऽपि नाहं किमप्यूचे | सा कथमात्मानं धर्तुं शक्ष्यति ? विरहपीडिता सा महादुःखमनुभवन्ती नूनं मरिष्यति। इत्थं पश्चात्तापमानंतम्प्रहसितोऽवक् । हे मित्र! त्वं पक्षितोऽपि निकृष्टोऽसि, त्वत्परिणयस्य वर्षाणां द्वाविंशतिर्जाता | कदाप्येकदा सा त्वयाऽऽलापितापि न । त्वद्विरहेण नूनं म्रियमाणा वर्तते । तस्याः कोऽप्यपराधो नास्ति । हे मित्र ! इदानीमपि तत्र गत्वा तामाथासय । ततो निजाभिप्रेतं मित्रवाक्यमाकर्ण्य सर्वैरप्यलक्षितः स प्रहसितेन साकं तस्या आवासमागतवान् । तत्र विराहातुरांतामावास्य ऋतुदानं दत्त्वा पश्चाच्चलितं तमवादीत्सा - त्वमेतद् गुप्तं सर्वं विधाय गच्छसि । माता ते मामपवदिष्यति । अतो मे निजनामाङ्कितमुद्रिकां देहि । मातरं मिलित्वा पुनर्याहि । तच्छ्रुत्वा मुद्रिकां दत्त्वा तेनोक्तम् - अयि प्रिये ! एनां गृहाण | अहमचिरादागमिष्यामि का ते भीतिः ?। इत्यालप्य स शिबिरं प्राप्तः । सापि ऋतुस्नानात्तद्दिन एव दिव्यं गर्भ दधार | ततोऽन्वहं गर्भवृद्धिमालोक्य वशुरादिपरिवारो दध्यौ - अहो ! इयम्मे कुलङ्कलङ्कितमकरोत् । अस्या भर्ता तु द्वाविंशतिवर्षमध्ये एकदापि न मिलितः । कथमियमन्तर्वत्नी दृश्यते ? नूनमसती जाता | तत एतत्स्वरूपमञ्जनामपृच्छत् । सा तदिदने यथा भर्ता शिबिरादागत्य स्वनामाङ्कितां मुद्रां दत्त्वा पश्चाद् योद्भुमचलत्तथा सर्वमाख्यत् परं तद्वचः केऽपि न मेनिरे । सर्वे च लोकास्तां निर्भय॑ गृहान्निष्काशयामासुः । ततो निष्कशिता सा पितृसद्म समागता । तेऽपि तत्स्वरूपं - 99
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy