SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली १४-अथ मनुष्यत्वदौर्लभ्ये रत्नस्य दृष्टान्तमाह (पञ्चमः)___ यथा-तत्र वसन्तपुरनगरे धनाढ्यो धनाऽभिधो व्यवहारी निवसति स्म । तस्य पञ्च पुत्रा आसन् । रत्नपरीक्षणशास्त्रे च तस्य धनश्रेष्ठिनो महान् परिश्रम आसीत् । अतस्तत्परीक्षाकरणेऽसावद्वितीयोऽभूत् । धनाऽऽधिक्यादसौ महार्हाणि रत्नान्यनेकानि क्रीत्वा गृहे रक्षितवान् । अत एनं सर्वे लोका रत्नसार इति कथयन्ति स्म । यानि यानि दिव्यानि रत्नानि यस्य कस्यचित्पाः सोऽपश्यत्तानि सर्वाण्यक्रीणात् । तदर्थमस्योपरि स्त्रीपुत्रा भृशं कुप्यन्ति स्म, तथाऽपि सुरत्नक्रयणात्स नैव विरराम । तानि रत्नानि लोहमय्यां पेटिकायां निक्षिप्य साऽपि पेटिका कोशालये सुरक्षिताऽकारि । तत्रैव स सदा सुष्वाप । कस्याऽपि तस्य विश्वासो नाऽऽसीत् । तत्रालये पुत्रादीनामपि गमनाऽऽगमने न भवतः । कदाऽपि तदालयं स नाऽमुञ्चत् । अथैकदाऽत्यावश्यककार्यवशादन्यत्र गतवन्तं तं ज्ञात्वा तत्सुतास्तानि सर्वाणि सुरत्नानि विचिक्रियुः । तानि लात्वा तेऽपि वैदेशिका नानादिशासु गतवन्तः । गृहागतः सतत्रालये कपाटोद्घाटनमालोक्य खिद्यन् भार्यामपृच्छत् - भो भार्ये ! रत्नानि कथं न दृश्यन्ते? तयोक्तम्- पुत्रैस्तानि वैदेशिकानां हस्ते विक्रीतानि । तदाकर्ण्य स भृशं पश्चात्तापमकरोत् । तेन किं स्यात् । नानादिक्षु गतानि तानि रत्नान्यस्य पुनरधिगताणि दुष्कराणि सन्ति । कदाचिद् दैवयोगेन देवसहाय्यादिना तानि रत्नान्यपि तेन पुनरधिगन्तुं शक्यन्ते, परं धर्मं विना यस्याऽतिदुर्लब्धमिदं मनुष्यत्वं गच्छतितेन पश्चात्तापंशतशः कुर्वता यतमानेनाऽपि 83
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy