SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली राश्या दोहदमाख्यात् । तच्छत्वा तापसेनोक्तम्- राजन् ! यद्यसौ न पूर्येत तर्हि जीवद्वयस्य हानिर्भविता | राजा वक्ति - तत्तु स्यादेव, परन्तु यथा दोहदस्य पूर्णतां विधाय जीवद्वयस्य रक्षणं भवेत्तादृगुपायः कोऽप्यस्ति चेद्वद । तदाकर्ण्य तापसो वक्ति- भो राजन् ! उपायो वर्तते, परं तथा करणे मे किं दास्यसि ? राजा ब्रूते - हे तापस ! यत्त्वं प्रार्थयिष्यसि तद्दास्यामि | पुनस्तापसेनोक्तम्- हे राजन् ! एनं गर्भस्थं बालकं यदि मे दद्यास्तर्हि तं दोहदं पूरयित्वा जीवद्वयं रक्षामि । राजाऽप्येतदङ्गीकृतवान्। एतच्च तत्रत्यकियत्प्रधानजनसमक्षे तापसो राज्ञा स्वीकारितवान्, ततः सकाशात्प्रमाणपत्रमपि लेखयित्वा स्वयं गृहीतवान्। अथैष तापसो राझ्या दोहदपूरणाय तृणमयमेकं सद्म निर्मापितवान्, तदुपरि चन्द्रांशुपाति गुप्तं छिद्रं विधाय गृहान्तमध्यभागे च रजतस्थालकं क्षीरभृतं विहितवान् । पौर्णमास्या रात्रौ षोडशकलापूर्णचन्द्रमसः प्रतिबिम्बो यदा कृतच्छिद्रद्वारा तत्र स्थालके पपात | तदा तत्र सुप्तां राज्ञीमुत्थाप्य राजा जगाद-हे प्रिये! तव भाग्ययोगात्पूर्णचन्द्र इहागतोऽस्ति, तमधुना यथेष्टं पिब । राज्यपि दोहदानुसारेण तथा स्थितं सुधांशुं वीक्ष्य पातुं लग्ना, सा च यथा यथा क्षीरम्पपौ, तथा तथा गृहोपरि कृतविवरमावृणोत् । ततः स्थालस्थे क्षीरे निःपीते विवरस्य पिधानेन प्रतिबिम्बितश्चन्द्रोऽप्यदृश्यो जातः । निःशवं मया चन्द्रः पीत इति सा राज्ञी प्रमुदिताऽभूत् । इत्थं बुद्धिचातुर्येण मयूरपालराजपत्न्या ईदृशो दोहदस्तेनाऽपूरि । ततो दशमे मासे शुभमुहूर्तेऽनेकोच्चगेशुभग्रहे राज्ययोगलग्ने - 77
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy