SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली ततस्तेन ब्रह्मदत्तचक्रवर्तिना तस्मै ब्राह्मणाय "अस्मद्राज्ये सर्वे लोका अस्मै ब्राह्मणाय प्रतिदिनमेतदिच्छानुसारेण भोजनमेकं दीनारं दक्षिणाञ्च क्रमशः प्रयच्छन्तु" इति राजमुद्रादिनाङ्कितंप्रमाणपत्रं दत्तम् । तत्प्रमाणपत्रं लात्वा स ब्राह्मणः स्वसद्माऽऽगतः । प्रथमे दिने चक्रवर्तिगृह एवातिस्वादिष्ठं भोजनं भुक्तम् । ततःप्रभृति स प्रत्यहं तथैव भुञ्जान एकैकदीनारदक्षिणाञ्जगृहे । इत्थडर्वतस्तस्य द्विजस्य (सत्यामिच्छायामपि) चक्रवर्तिगृहे पुनर्भोक्तुं समयो यथा नाऽयासीत् । यतस्तस्य चक्रवर्तिनो द्विनवति-सहस्रोत्तरलक्षपत्नीनामावासादयस्तावन्तः पृथक् पृथगेवाऽऽसन् । पुनस्तस्य महानगराणां द्विसप्ततिसहस्राण्यासन्। एकैकस्मिन् सहस्राणि लक्षाणि च गृहाण्यासन् । एवं ग्राम-कर्बटमण्डपद्रोणादयस्तस्याऽऽसन, एतेषां मध्ये तस्मै चक्रवर्तिगृहे पुनर्भोजनाऽवसरो यथा दुर्लभो दृश्यते, तथैवाऽमीषां प्राणिनां महता यत्नेन सुकृतशतयोगेनैकदा लब्धमिदं मानुष्यञ्जन्म प्रमादादिवशाद् गतं सत् पुनर्लभ्यं कदाऽपि न भवितुमर्हति । अतः प्रमादादिकं विहाय सर्वैरप्येतदतिदुर्लभं लब्धं मनुष्यत्वं धर्माराधनेन साफल्यमवश्यमेव नेयमिति । 73
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy