SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली चचाल । तस्मिन्नवसरे कुमारेण कथितम्- भो मित्र! मम वधूमप्यानय नो चेन्मरिष्यति सा । वरधनुनोक्तम्-स्वामिन् ! समयो नास्ति । जीविष्यसि चेदन्या बढ्यो मिलिष्यन्ति । एतस्मिन्नवसरे स्वरक्षणमेव विधातव्यम्। ततस्तावुभौ सत्वरं सुरङ्गमार्गेण दानशालान्तिके समायातौ । तत्र च तयोरर्थे पूर्वमेव वरधनुपित्राऽवद्वयमस्थाप्ययत् । तौ तावारुह्य तत्कालमेव देशान्तरं प्रययतुः । क्रमेण गच्छतोस्तयोः शतयोजनेऽतिक्रान्ते द्वावप्यचौ ममतुः । ततस्तौ पद्भ्यामेवाग्रे चेलतुः । एवं दीर्घपृष्ठनृपभयान्नश्यन्तौ गच्छन्तौ तौ कियदकालानन्तरं भवितव्ययोगान्मिथो वियुक्तौ बभूवतुः । तत्कथा चाऽत्र महत्त्वादनवसरत्वाच्च न दर्श्यते, किन्तु संक्षेपेण किञ्चिद्दर्श्यते । इत्थं ब्रह्मदत्तकुमारः शतवर्षाणि पर्यटत् । क्लेशाश्च सोढुमशक्या अनेके महान्त आपुः। अनेके दाराश्च बभूवुस्तैः सह सुखं स्वैरं भुञ्जानः स कालं व्यतीयाय । सर्वमेतद् ब्रह्मदत्तचरित्रे विस्तरं विलसति । तत एवैतदधिकजिज्ञासावद्भिर्बोध्यम् । ___अथ वियुक्ते च वरधनुनामि मित्रे कुमार एकाकी पर्यटन्नष्टचत्वारिंशत्क्रोशान्तमरण्यम्प्राप्तवान् । तच्च चापदादिदुष्टजीवैराकीर्णमतिभयास्पदमासीत् । तस्मिन् निर्जने वने चैकाकी गन्तुमशक्नुवन् किङ्कर्तव्यतामूढः स कुमारः कमपि सार्थवाहं प्रतीक्षमाण एकं ब्राह्मणमपश्यत् । तेन सह कुमारस्तत्र महाकानने चचाल । मध्याह्ने च कुत्राऽपि जलाशये समुपविश्य ब्राह्मणः स्वयंसक्तूनखादत्। कुमारस्य तु किञ्चिदपि न दत्तम् । सोऽपि तस्मात्तन्न ययाचे । 69
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy