SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली मां राज्यं स्थापयितुमिच्छसि । अरे ! किमिति नीतिं न स्मरसि "गृहीत इव केशेषु, मृत्युना धर्ममाचरेदिति । अतस्त्वं राज्यं गृहाण । इत्युदीर्य तस्मै राज्यं दत्त्वा स्वयमेव गुर्वन्तिकं गत्वा प्रव्रज्याञ्जग्राह । ___अथ सुरप्रभो राजर्षि सम्यक् संयमं समाराधयन् महता तपसा जपादिना च कर्माणि निर्जरयन्नन्तेऽनशनं विधाय मृत्वा पञ्चमे ब्रह्मदेवलोके देवोऽभूत् । इतश्च शशिप्रभो राजा धर्मविमुखो भूत्वा सप्तव्यसनाऽऽसेवी मृत्वा तृतीयनरके समुदपद्यत । तत्र तस्य महान्ति दुःखानि सोढव्यानि बभूवुः । तत्रावसरेऽवधिज्ञानेन महाक्लेशमनुभवन्तं निजबान्धवमालोक्य स्नेहवशात् स सुरप्रभो देवस्तदन्तिकमाजगाम | तत्र तथावस्थं तं वीक्ष्य मोहवशात्तं तत उद्धर्तुकामेन प्रयतितेऽपि तस्य प्रत्युत क्लेशाधिक्यमेव जज्ञे । तदा देवस्तमेवमुवाच हे भ्रातः ! मया बहुधा वारितोऽपि त्वं पापान्न न्यवर्तथाः । अत एवंविधं महाक्लेशमत्राऽनुभवसि । इदानीं किं क्रियते ? | ततो नारकेयेणोक्तम्- भो देव ! मम दुःखादीदृशं विषादं मा गाः । लोकैर्यथा क्रियते तथाऽवश्यमेव परत्र भुज्यते, मयाऽपि यथाऽर्जितं कर्म भवान्तरे तथाऽत्र भुज्यते, भोगं विना कस्यापि जीवस्य शुभाऽशुभकर्माणि न क्षयन्ति । अथ स देवः स्वस्थानमाययौ । शशिप्रभश्च तत्रैव भृशमसह्यानि दुःखान्यनुभवन कुर्वंश्च पश्चात्तापमासीत् । अनया कथया लोकैः सारतया ग्राह्यमवश्यमेतत् तथाहि- यथा सुरप्रभो राजाऽसारमेनं संसारं हेयमिति ज्ञातवान्, ततो दुर्लभमेतन्मनुष्यत्वं धर्माराधनेन सफलीकुर्वन 62
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy