________________
१२. कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ' (कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः)
गीताया महत्त्वम्-विदितमेवेदं तथ्यं समेषामपि विपश्चितां यद् भगवद्गीतेयं प्रस्तवीति कर्मयोगस्य राद्धान्तम् । जीवने कर्मयोगस्य कावश्यकता इत्यत्र सन्ति बहवो वादाः। केचन कर्मणो महत्त्वं स्वीकुर्वन्ति, केचन च ज्ञानस्य महत्त्वम् उद्घोषयन्तः कर्म हीनमिति प्रतिपादयन्ति । यदि याथातथ्यतो विविच्यते तहि सुकरम् एतद् वक्तुं यद् जीवने कर्म विहाय ज्ञानमपि दुरासदम् । मानवजीवने कर्मैव तारकम्, साधकम्, प्रत्यहवारकम्, दुःखनिरोधकम्, अर्थाधिगमसाधनम्, पापनिवारकम्, आधिव्याधिविनाशकं चेति । यत्र यत्र कर्म तत्र तत्र सुखम्, कर्मणः सुखाधिगमहेतुत्वात्, यथा रामादिजीवने। यत्र यत्र काभावः तत्र तत्र दुःखावसादः, अकर्मणो दुःखमूलत्वात्, श्वपाकादिजीवने दारिद्रयादिदर्शनात् ।
__ जीवनस्योद्देश्यम्--किं जीवनमिति विविच्यते चेत् तर्हि सुकरम् एतद् वक्तुं यद् जीवनं पुरुषार्थसाधनम् । धर्मार्थकाममोक्षा इति पुरुषार्थचतुष्टम् । धर्मार्थं कामार्थम् अर्थोपार्जनार्थं मोक्षावाप्तये च सर्वत्रैव कर्मण आवश्यकता प्रतिपदम् अनुभूयते । कर्मणैव हि भूभृतो यतयो महर्षयश्च स्वार्थसाधने सक्षमाः । अगृहीतकर्मयोगवैजयन्तीकाः, अनाश्रितपुरुषार्थायुधाः, अनवाप्तधैर्यशौर्यगुणगौरवाः, दैवाश्रयैकप्रवणाः, स्वापैकहेतयः, नहि जीवने अल्पीयसीमपि सिद्धि समासादयितुं प्रभवन्ति । ये हि बद्धपरिकराः, पुरुषार्थं कहेतयः, लक्ष्यैकचित्ताः, 'कार्य वा साधयेयं शरीरं वा पातयेयम्' इति मन्त्रोच्चारदीक्षिताः, त एव विजयलक्ष्मीपतयः सततवृतसिद्धिवैजयन्तीकाः भुवने चकासति । अतएव भगवता श्रीकृष्णेन भगवद्गीतायां सुस्पष्टं स्वीयम् अभिमतं प्रतिपाद्यते यत्
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ गीता २-४७ यदि याथातथ्यतो विविच्यते तहि श्लोकोऽयं यजुर्वेदमूलकमेव । यजुर्वेदे प्रोच्यते यत्
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ यजु० ४०-२
निष्काम-कर्मयोगः कीदृशं कर्म श्रेयोवहम् ? इति जिज्ञासायाम् उत्तरं प्रस्तूयते यद् अनासक्तिभावनयैव क्रियमाणं कर्म लोक-परलोकोभयसुखदमिति । अनासक्तिभावनया कृतं कर्म न च बन्धनहेतुः, न च दुःखसाधनम् । कर्तव्यबुद्ध्या यद् यद् विधीयते तत् सदा सुखावहमेव । कर्माधीनं जीवनम् । अनासक्ति