________________
भारतीयदर्शनानां महत्त्वं वैशिष्ट्यं च । क्रियते:-( क ) हेयम्-दुःखं हेयं त्याज्यं वा । (ख ) हेयहेतुः-किमिति दुःखानि हेयानि ? (ग) हानम्-दुःखानां शाश्वतिकोऽभावः । (घ) हानोपायः-दुःखप्रणाशस्य के उपायाः ? एवं विविच्य दुःखप्रणाशोपाया दर्शनैः प्रस्तूयन्ते ।।
(५) कर्मफलस्यानिवार्यत्वम्-कृतं क्रियमाणं करिष्यमाणं च कर्म फलभाग् भवति । कृतकर्मणा विपाकरूपेण विविधयोनिषु उच्चावचकुलादिषु च जन्म भवति । 'अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्' इति भारतीयदर्शनानां मतम् । अतः कर्मविशुद्धौ आचारशुद्धौ च बलम् आधीयते तज्जैः ।
(६) पुनर्जन्मनः स्वीकरणम्-चार्वाकव्यतिरिक्तानि भारतीयदर्शननानि कर्मफलानुसारं मानवस्य पुनर्जन्म स्वीकुर्वन्ति ।। ____ जातस्य हि ध्रवो मृत्युर्धवं जन्म मृतस्य च । (गीता २-२७)
(७) मानवजीवनॉन्वयित्वम्-भारतीयदर्शनानि आचारमीमांसायां मानवस्य कर्तव्याकर्तव्यानां विशदं विवेचनं प्रस्तुवन्ति । किं कर्तव्यम् ? किम् अकर्तव्यम् ? कथम् अभ्युदयः ? कथम् अवनतिः ? मानवजीवनस्य समस्यानां कथं निरोधः प्रतिकारो वा विधेयः इत्यादयो, जोवनसंबद्धा अनुयोगा दर्शनैः समाधीयन्ते ।
(८) चारित्रिकोन्नतेमहत्त्वम्-भारतीयदर्शनेषु चारित्रिकोन्नतौ महद् बलम् आधीयते । आस्तिकानि नास्तिकानि चोभयान्यपि दर्शनानि चारित्रिकी विशुद्धिम् उन्नतिं च जीवनस्यावश्यकर्तव्यत्वेन उपन्यस्यन्ति । 'संभावितस्य चाकीर्तिमरणादतिरिच्यते' ( गीता २-३४) ।।
(९) अज्ञानस्य बन्धनकारणत्वम्-जीवोऽज्ञानवशगो भूत्वा बन्धनम् आपद्यते । स भूयो भूयो जायते म्रियते च । अज्ञाननाशम् अन्तरेण जन्म-मृत्युबन्धनाद् न हि मुच्यते जीवः ।
(१०) मोक्षस्य जीवनलक्ष्यत्वम्-मोक्षो मुक्तिनिर्वाणं वा जीवनस्य परमं लक्ष्यम् । मोक्षमधिगत्यैव जीवः स्वजीवनस्य चरमम् उद्देश्यं विन्दति । ज्ञानाग्निना सर्वकर्मणां विनाशे आत्मसाक्षात्कारे च मोक्षावाप्तिः संजायते ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा। (गीता ४-३७) भिद्यते हदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः।।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ ( वेदान्तसार )
(११) स्वतन्त्रास्तित्वम्-पाश्चात्त्यदर्शनानि राजनीति-धर्मशास्त्रसमाजशास्त्र-आचारशास्त्रादीनाम् अङ्गरूपेण समुद्भूतानि वर्तन्ते, परं भारतीयदर्शनानां समुदयो वैदिककालाद् आरभ्य स्वतन्त्रचिन्तनरूपेणाभवत् । अतोऽस्य स्वतन्त्रम् अस्तित्वं विद्यते । मुण्डकोपनिषदि ब्रह्मविद्या सर्वविद्याऽऽधारत्वेन परिगण्यते ।
स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठाम् अथर्वाय ज्येष्ठपुत्राय प्राह । ( मु० १-१)