________________
१० विद्यावतां भागवते परीक्षा
(श्रीमद्भागवत-समीक्षा) भागवतस्य स्वरूपम्--श्रीमद्भागवतं नाम श्रीमद्व्यासकृतं प्रथिततमं पुराणम् । एतद् भागवतं नाम परमं ज्योतिः। विद्योतयति चैतद् ज्योतिः सचेतसां चेतांसि, अपहरति मलं मलदूषितानां मलिनात्मनाम्, जागरयति चेतसि अध्यात्मदहनम्, प्रबोधयति विवेकम्, शोधयति स्वान्तम्, रोधयति पापततिम्, अवगमयति दर्शनतत्त्वम्, विगमयति दुर्मतिम् संगमयति च सद्भावसरणिम् ।
___ भागवतस्य महत्त्वम्--समग्रेऽपि पुराणसाहित्ये न तथा पावनं मधुरं चेतःप्रसादजननं विवेकालोकप्रसारकं पुराणमन्यद् यथा श्रीमद्भागवतम् । भागवतं हि ज्ञान-विभा-प्रसार-समकालमेव अध्यात्मरति ब्रह्मनिष्ठां भगवद्भक्ति सदाचारसरणिं च प्रस्तवीति इति धर्मार्थकाममोक्षात्मकस्य चतुर्वर्गस्य साधकमपि निर्णीयते । भगवद्भक्तिम् आश्रित्य कथं जीवनस्य त्राणम् अपवर्गावाप्तिश्चेति अत्रोपदिश्यते । भगवद्भक्तिमूलकं कृतं कर्म न बन्धनकारणम् । भगवद्भक्तिजं ज्ञानं दुःखप्रहाणि विधाय आत्मतत्त्वावलोकने ब्रह्मरूपताप्राप्तौ च प्रभवति।
श्रीमद्भागवते कथाख्यानादिकम् आश्रित्य क्वचिद् दर्शनम्, क्वचिद् वेदतत्त्वम्, क्वचित् सांख्ययोगसिद्धान्ताः, क्वचिद् वेदान्तराद्धान्ताः, क्वचिद् उपनिषत्-तत्त्वम्, क्वचिद् आत्मज्ञानम्, क्वचिच्च परमा भक्तिः वर्ण्यते । भागवतकर्तुः सर्वविषयावगाहिज्ञानसंपन्नत्वाद्, विविधकलानिष्णातत्वात्, काव्यशास्त्रनदीष्णत्वात्, आख्यानप्रवणत्वात्, ऐतिह्यविदग्धत्वात् तथाविधं मनोज्ञं वचो यथा न केवलं कोविदतल्लजानामेव हृदयान्यावर्जयति, अपि तु तद्वचोमाधुरी अल्पधियामपि मनांसि अपूर्वया संगीतात्मकतया रञ्जयति ।
__ यथा महाकविना श्रीहर्षेण स्वीये नैषधीयमहाकाव्ये स्वविषये प्रोच्यते'प्राज्ञंमन्यमना हठेन पठिती मास्मिन खलः खेलत'। यथा च विविधविषयावगाहित्वेन नैषधीयकाव्यस्य धीनिकषत्वं स्वीकुर्वद्भिः 'नैषधं विद्वदौषधम्' इति सादरम् उदीयते, तथैव श्रीमद्भागवतविषयेऽपि विदुषामियं सूक्तिः चरितार्था यद्-विद्यावतां भागवते परीक्षा, इति ।
भागवते प्रतिपदं दर्शनतत्त्वानाम् उपदेशः, शास्त्रीयविषयाणां सुललितया गिरा प्रतिपादनं तस्य महत्त्वं वैशिष्ट्यं वैदुष्यजनकत्वं चापादयति । प्राज्ञंमन्यमना ज्ञानलवदुर्विदग्धो नास्य तत्त्वावगमे प्रभवति । श्रद्धाराद्धगुरुश्लथीकृतदृढग्रन्थिः तत्तत्-शास्त्रावगाहेनैव गूढार्थकानां कूटानां च पद्यानाम् अर्थावगमे क्षमः।