SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आशा बलवती राजन् शल्यो जेष्यति पाण्डवान् २७५ काव्यकोशलाय, शूरं शौर्याय, धीरं धैर्याय च । अजस्रमेतदाचरति सुप्रिय सर्वलोकस्य । आशा परमं ज्योतिः - आशा नामेयं नितरामावश्यकी जीवनेऽस्मिन् । उपादेया चेयमुन्नतिमभिविधित्सुभिः । अस्ति चेच्चेतसि धैर्यंस्याऽऽधित्सा तहि नूनमियमाधेया । विपन्ने विषण्णे च मानसे धैर्यमादधात्याशैव । न हि विपच्छाश्वती, तदत्ययो ध्रुवः, निशावसानं नियतम्, निशात्यये उषस उद्गमोऽनिवार्यः, एवं विपदां क्षयोऽपि ध्रुवः, क्रमशः सम्पदां समुपस्थितिश्च सुनिश्चितेति विचारं विचारं धीधैर्यं धारयति । आशाबन्धः सुखावाप्तये - समाश्रिता चेदियं साधयत्यसाध्यमपि साध्यं साधूनाम् । परहितनिरता हि साधवः पीड्यन्ते पापिष्ठैः पुरुषः । अज्ञानसंभारसंक्षीणसद्भावा ह्यसाधवो न चिन्तयन्ति चारुचेतसां चरितानि । अपगते चाज्ञानमले त एव साधूनां सच्चरितानि चिन्तयन्ति, प्रशंसन्ति च तेषां परहितनिरतत्वम् । धृत्या आश्रयणेनैव साधवोऽसाधून विजयन्ते । प्रोषिते हि भर्तरि वियोगदुःखविधुरा वामा न लभन्ते जातु शान्तिम् । आशैव त्रायते तासां जीवनम् । सैव साहयति गुर्वपि विरहदुःखम् । अत आह कालिदासः - गुर्वपि विरहदुःखमाशाबन्धः साहयति । शा० ४-१६ अतिमृदुलं हि मानसं भवति मनस्विनीनाम् । आशाबन्धमन्तरेण न शक्यं ताभिर्विप्रयोगदुःखं सोढुम् । अत उच्यते— आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां, सद्यः पाति प्रणयि हृदयं विप्रयोगे रुणद्धि । ( मेघ० पूर्व० ९ ) आशा आशा बलवती राजन् ० - आशामवष्टभ्यैव वीतरागभयक्रोधाः संसारासारत्वोपदेशदक्षा ऋषयो मुनयश्च मुमुक्षवस्तीक्ष्णं तपस्तप्यन्ते । माश्रित्यैवान्तेवासिनो महच्छ्रममनुष्ठाय परीक्षोदधिमुत्तीर्यं जीवने साफल्यं भजन्ते । महाभारतयुद्धे गते भीष्मे हते द्रोणे कर्णे च देवभूमिं गते आशामाश्रित्येव शल्यं सैनापत्येऽभ्यषेचयन् कौरवाः । अत एवोच्यतेगते भीष्मे हते द्रोणे कर्णे च विनिपातिते । आशा बलवती राजञ्छल्यो जेष्यति पाण्डवान् ॥ वेणी० ५-२३ देशाभ्युदयः समाजोन्नतिश्चाशाश्रयणेनैव संभवति । भारतवर्षे विविधाः पञ्चवर्षीया योजना देशाभ्युदयस्याशयैव प्रवर्त्यन्ते । अवगम्यत एवमाशाया महत्त्वम् । आशा तृष्णयोरन्तरम् — इदं चात्रावधेयम् । सूक्तं केनापि — 'अति सर्वत्र वर्जयेत्' । यद्याशैवैषा तृष्णारूपेण परिणमते चेद् भवत्येषैव विपदां निदानम् । नहि शाम्यति तृष्णा, तदुपकरणानि तु शाम्यन्ति । तावत्येवाशा श्रेयस्करी
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy