________________
आचार्यदेवो भव
आचार्य एव गुण- वेशिष्टात् ब्रह्मणो मूर्तिसंत्ते ।
आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः । मनु० २-२२६ गुरु-शुश्रूषयेव ज्ञानावाप्तिः, यथा कूपखननेन जलाधिगमः । गुरु-सेवाफलं वयते यद् गुरु-शुश्रूषयैव ब्रह्मलोकप्राप्तिर्जायते । उक्तं च
गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते । मनु० २-२३३
एवं स्फुटमेतद् विज्ञायते यद् गुरोः कृपाया आनृण्यं कथमपि नावाप्तुं पायंते । गुरोः कृपयैव ऋषयो महर्षयः कवयो महाकवयो विविधविद्या निष्णाताश्चान्तेवासिनोऽभूवन् । अतो गुरुराचार्यो वा सदा देववत् पूज्यः । अतः साधूच्यते
आचार्यदेवो भव ॥
२६७