SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ संस्कृतस्य रक्षार्थं प्रसारार्थं चोपायाः २४९ ( ४ ) नवभावावबोधनम् — विश्वसाहित्ये प्रयुज्यमानाः सर्वेऽपि भावाः सहर्ष - माश्रयणीयाः प्रयोज्याश्च । नवभावावबोधनार्थं नूतना शब्दावली प्रयोज्या निर्मातव्या वा । विदेशीयनवशब्दग्रहणे न संकोच प्रवृत्तिरास्थेया । ( ५ ) संस्कृतभाषा - व्यवहारः - जीविता समृद्धा च सैव भाषा या लोके व्यवह्रियते प्रयुज्यते च । संस्कृतभाषायाः प्रचाराय प्रसाराय चानिवार्यमेतद् यत् संस्कृतज्ञाः संस्कृतमाश्रित्यैव व्यवहरेयुः । भाषणे लेखने वादे विवादे संलापे पत्रव्यवहारे च संस्कृतमेव प्रयुञ्जीरन् । ( ६ ) नवग्रन्थ रचना - नवीनान् विषयानाश्रित्य संस्कृते नवग्रन्थरचना स्यात् । साम्प्रतिके काले प्रचलिताः सर्वेऽपि विषयाः संस्कृतमाध्यमेन सुलभाः स्युः । एतदर्थं विविधविद्यानिष्णाताः संस्कृतज्ञाः सविशेषमुत्तरदायित्वं भजन्ते तेषां चैतत्पावनं कर्म । (७) नवविषयाध्ययनम् – संस्कृतज्ञानां कृतेऽनिवार्यमेतद् यत् ते संस्कृताध्ययनेन सहैव भूगोलमैतिह्यं विज्ञानादिविषयान् विदेशीया भाषाश्चाधीयीरन् । विविधविद्याध्ययन मन्तरेणाशक्यं धियो विस्फुरणम् । ( ८ ) अन्वेषण - कार्यम् – संस्कृतेऽन्वेषणकार्यंस्य महत्यावश्यकता । अन्वेषणकार्यमेव गौरवाधायि । अन्वेषणेनैव वाङ्मयस्य महत्त्वमुत्कर्षश्चावगम्यते । एतदर्थं महान् श्रमोऽपेक्ष्यते । (९) संस्कृतग्रन्थानामनुवादः – संस्कृतस्य प्रचारार्थं प्रसारार्थं चावश्यकमदो यत् सर्वेषामपि प्रमुखानां संस्कृतग्रन्थानां न केवलं भारतीयासु भाषास्वेव प्रामाणिकोऽनुवादः स्यादपि तु विश्वस्य सर्वास्वेव प्रधानासु भाषासु तेषामनुवादः स्यात् । कार्यं चैतत् सर्वकारप्रयत्नेन तत्सहयोगेन , सम्भवति । ( १० ) सुलभग्रन्थमालाप्रकाशनम् — सर्वेषामपि प्रमुखानामुपयोगिनां च संस्कृतग्रन्थानां सानुवादम् अल्पमूल्यकं संस्करणं प्रकाशितं स्यात् । महार्घाणां चाकरग्रन्थानां सारांशरूपं संस्करणं सानुवादं प्रचारार्थं प्रकाशितं स्यात् । (११) वैज्ञानिक शैलीसमाश्रयणम् - वैज्ञानिकों शैलीं समाश्रित्य संस्कृतं प्रारिप्सूनां बालानां संस्कृतप्रेमिणां च कृते सुबोधा हृद्याश्च ग्रन्थाः प्रणेयाः । ( १२ ) संस्कृतस्यानिवार्यशिक्षणम् - आर्य ( हिन्दी ) - भाषया सहैव संस्कृतमपि सर्वेषु विद्यालयेष्वनिवायं स्यात् । संस्कृतमूलकमेव हिन्दीभाषाज्ञानं श्रेयोवहमिति समेषां सुधियाम् अत्रैकमत्यम् । (१३) पठनपाठनपद्धति परिष्कारः - संस्कृतस्य प्रचारार्थमावश्यकमेतद् यत् संस्कृतस्य पठनपाठनप्रणाली साम्प्रतिकीं वैज्ञानिकों पद्धतिमनुसरेत् । तत्र च स्यादावश्यकः परिष्कारः । (१४) विलुप्तग्रन्थोद्धारःसंस्कृतस्यानेके महार्घा ग्रन्था विलुप्ता विलुप्तप्राया जीर्णाः शीर्णा वा यत्र तत्रोपलभ्यन्ते । तेषामभ्युद्धार आवश्यक: । (१५) सर्वकार सहयोगः -- सर्वमुपरिष्टादभिहितं सर्वकारसहयोगेनैव सम्भवति । सर्वकारस्य कर्तव्यमेतद् यद् स संस्कृतज्ञानमाद्रियेत, संस्कृतवाङ्मयप्रसारे साहाय्यमाचरेत्, राजकीयवृत्तिषु संस्कृतज्ञानम् अनिवार्यं कुर्यात्, संस्कृतशिक्षोद्धारे प्रयतेत च । --
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy