________________
५२. नहि सत्यात् परी ( १. सत्यमेव जयते नानृतम्, २. सत्ये सर्व प्रतिष्ठितम् ) सत्यं सर्वजगन्मूलं जगदाधारकं परम् । सत्यान्नास्ति परं ज्योतिः, सत्यं धर्मस्य जीवितम् ॥ ( कपिलस्य )
किं नाम सत्यम् ?–सते कल्याणाय हितं सत्यम् । यत् सर्वलोकहितसम्पादने प्रभवति, सर्वस्य च जगतः सुखमावहति, समाजस्य च संरक्षणं विदधाति, तत् सत्यम् । दार्शनिकहष्ट्या यद् वस्तु शाश्वतरूपेण स्थायि अविनश्वरं च तत् सत्यम् । यत्र देशकालादिभेदेऽपि न वैपरीत्यं परिवर्तनक्षमत्वं वा तत् सत्यमिति । तथाविध-विवेचनया जगति ब्रह्मव सत्यम् इति दर्शनविद्भिः संस्थाप्यते । अत्र दार्शनिकं सत्यं न विवक्षितम्, इति लौकिकं सत्यमेव विवियते । यद् वस्तु येन रूपेण विद्यते, तस्य तेनैव रूपेण प्रकाशनं विवरणम् अभिधानं च सत्यम् इत्यनेनाभिप्रेतम् ।
सत्यमेव जयते-जगति द्विविधा प्रवृत्तिर्मानवानाम्-सत्याश्रयिणः असत्याश्रयिणश्च । केचन अनृतमेव जीवनोपयोगीति आकलय्य अनृतेनैव जीविकोपार्जनं विदधते। अनृतेनैव लोक-व्यवहारसिद्धिरिति ते मन्वते । असत्याचार-विचार-प्रचार-प्रचुरे विश्वप्रपञ्चे न छलप्रपञ्च आश्रीयते चेत् न केनापि प्रकारेण स्वार्थसिद्धिः । अवितथाश्रयेणैव धनोपचयो लोकख्यातिश्चेति मन्वाना अनृतमाश्रयन्ते । परमेतन्मतं तथ्यानवगाहि। ये हि भौतिकसुखलिप्सयाऽनिच्छया अधर्मावृतलोचना अनृतमाश्रयन्ते, तेऽचिरादेव दुर्गतिगर्तमग्नाः, दुरुदर्कोपनिपातभग्नगतयः, अज्ञानसंछन्नाः, विपदन्तां गतिमाश्रयन्ते । उक्तं च मनुना
अधर्मेणैधते तावत्, ततो भद्राणि पश्यति ।
ततः सपत्नान् जयति, समूलस्तु विनश्यति ॥ मनु० ४-१७४ - असत्याश्रयेण तात्कालिकी अल्पकालिकी वा समुन्नतिः सुलभा, परं सोन्नतिः ख्यातिर्वा दुःखोदर्का दुःखान्ता च । लोके हि पारमार्थिकी समुन्नतिरुद्गतिः प्रगतिर्वा सत्येनैव संभवा । सत्याश्रयिणोऽसत्यम् असन्मिश्रं च परित्यज्य लौकिकं पारलौकिकं च तात्त्विकमभ्युदयं लभन्ते । अत एवोच्यतेसत्यमेव जयते, नानृतम् । यजुर्वेदे चोच्यते-इदमहमनृतात् सत्यमुपैमि (यजु०१-५)।
नहि सत्यात् परो धर्मः-धर्मस्य मूलं सत्यम् । सत्यमेव धर्मः । नहि धर्मः सत्याद् अतिरिच्यते। सत्यं ज्योतिः, सत्यमेव जीवनं द्योतयति ज्वलयति च । सत्यं ब्रह्मणस्तत्त्वम् । अतएव–'ब्रह्म सत्यं जगन्मिथ्या' इति वेदान्तविद्भि