________________
अर्थविज्ञानम्
१६५
शब्दश्च शब्दाद् बहिर्भूतः । अर्थोऽबहिर्भूतः॥ महा० १-१-६६
अर्थनिर्धारणविषये भर्तृहरिणा निर्दिश्यते यद् अर्थ-प्रकरणाभ्याम् अर्थो निर्धार्यते । 'अर्थप्रकरणाभ्यां तु तेषां स्वार्थो नियम्यते' ( वाक्य० २-३३५ )। शब्दशक्तिप्रकाशिकायां जगदीशः शक्तिग्रहस्य साधनाष्टकं निरूपयति ।
शक्तिग्रहं व्याकरणोपमान-कोषाप्तवाक्याद् व्यवहारतश्च । वाक्यस्य शेषाद् विवृतेर्वदन्ति सांनिध्यतः सिद्धपदस्य वृद्धाः ॥
श्लोक २० अर्थविकासः--पाश्चात्त्यदेशेषु सर्वप्रथमं मिशेल ब्रेआल-महोदयः ( Michel Breal ) स्वीये फ्रेंचभाषा-ग्रन्थे ( Essai de Semantique) अर्थविकासस्य विवेचनं व्यदधात् । तत्र च तेन अर्थ-विकासस्य वृत्तित्रयं प्रतिपाबते-१. अर्थबिस्तारः, २. अर्थसंकोचः, ३. अर्थादेशः ।
____ अर्थविस्तारः-यत्र शब्दः स्वीयं मौलिकम् अर्थ बोधयन्नेव सादृश्यादिकारणाद् अर्थान्तरमपि द्योतयति, तत्रार्थविस्तारप्रक्रिया स्वीक्रियते । अर्थविस्तारविषये भर्तृहरिणा प्रोच्यते यत् शब्दः किंचित् सामान्यम् आश्रित्य अर्थान्तराण्यपि योतयति ।
संसगिषु तथाऽर्थेषु शब्दो येन प्रयुज्यते । तस्मात् प्रयोजकादन्यानपि प्रत्याययत्यसौ ॥ वाक्य० २-३०१ तथा शब्दोऽपि कस्मिश्चित् प्रत्याय्यार्थे विवक्षिते । अविवक्षितमप्यथं प्रकाशयति संनिधेः॥ वाक्य० २-३०३
उदाहरणरूपेण प्रवीण-कुशल-शब्दौ विवेचनम् अर्हतः । प्रकृष्टो वीणायाम् इति प्रवीणः । वीणावादने चतुर इत्यर्थः । परम् अर्थविस्तारप्रक्रियया 'चतुर'-मात्रेऽयं शब्दः प्रयुज्यते । एवमेव कुशान् लाति छिनत्ति इति कुशलः । परं कुशच्छेदनरूपं मूलार्थं परित्यज्य चतुरेऽर्थेऽस्य प्रयोगः । एवं तैलशब्दस्य मूलार्थोऽस्ति, तिलस्य इदं तैलम्, तिलस्नेह इत्यर्थः । तिलस्नेहरूपं मूलार्थ परित्यज्य तैलमात्रे तैल-शब्दः प्रयुज्यते । एवं पुंगव-वृषभ-ऋषभादिशब्दा वृषार्थ परित्यज्य उत्कृष्टार्थे प्रयुज्यन्ते । यथा-भरतर्षभः, नरपुंगवः । गवेषणाशब्दो गवाम् अन्वेषणम् इति मूलार्थं परित्यज्य अन्वेषणमात्रे प्रयुज्यते ।
अर्थसंकोच:--यत्र शब्द: स्वीयं यौगिकमर्थं परित्यज्य कस्मिश्चिद् विशिष्टेऽर्थे प्रयुज्यते, तदाऽर्थसंकोचप्रक्रिया स्वीक्रियते। यथा-गच्छतीति गौः, या गच्छति चलतीति सा गौः। न गमनमात्रेण नरोऽपि गोशब्दाभिधेयः । अतएव साहित्यदर्पणे विश्वनाथेनोच्यतेअन्यद्धि शब्दानां व्युत्पत्तिनिमित्तम्, अन्यच्च प्रवृत्तिनिमित्तम् ।
सा० दर्पण २-५ वेदे अरि-शब्दः शत्रौ ईश्वरार्थे च प्रयुज्यते। परं संस्कृते शत्रौ एव