SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ४१ ] बालमनोरमा-तत्वबोधिनीसहिता । [ ६४३ 'सकृत्' इत्यादेशः स्यात्, चात्सुच् । सकृद् भुङ्क्ते । 'संयोगान्तस्य -' (सू ५४) इति सुचो लोपः । न तु 'हल्याप्-' ( सू २५२ ) इति । श्रभैत्सीदित्यत्र सिच इव सुचोऽपि तदयोगात् । २०८८ विभाषा बहोर्धा ऽविप्रकृष्टकाले । (५-४-२०) अविप्रकृष्ट श्रसन्नः । बहुधा बहुकृत्वो वा दिवसस्य भुङ्क्ते । 'श्रासन्नकाले' किम्बहुकृत्वो मासस्य भुङ्क्ते । २०८६ तत्प्रकृतवचने मयट् । ( ५-४-२१ ) प्राचुर्येण प्रस्तुतं प्रकृतम्, तस्य वचनं प्रतिपादनम् । भावेऽधिकरणे वा ल्युट् । रूपमित्यर्थः । अत्र भुङ्क्ते इत्यनुषज्यते । एकस्य सकृच्च । शेषपूरणेन सूत्रं व्याचष्टे सकृदित्यादेशः स्यादिति । सकृद् भुङ्क्त इति । एकशब्दात् सुच्, प्रकृतेः सकृदित्यादेशश्च । श्रत्र एकशब्दः क्रियाविशेषणम् । एकत्वविशिष्टा भुजिक्रियेत्यर्थः । स्वादु पचति इत्यादिवदेकं भुङ्क्ते इति प्रयोगे प्राप्ते इदं सूत्रमिति कैयटः । एको भुङ्क्ते इत्यत्र तु नायं विधिः प्रवर्तते, क्रियाग्रहणमनुवर्त्य क्रियाविशेषणस्यैव एकशब्दस्य ग्रहणादित्यास्तां तावत् । ननु 'संयोगान्तस्य -' इति सुचो लोप इत्यनुपपन्नम् । ‘हल्ङ्याब्भ्यः -' इत्येव हि सुलोपोऽत्र युक्तः । तस्मिन् कर्तव्ये संयोगान्तलोपस्य त्रैपादिकस्यासिद्धत्वादित्यत श्राह नतु हल्डयाबितीति । सिच इवेति । श्रभैत्सीदित्यत्र सिचो लोपनिवृत्तये हल्डयाबित्यत्र सिग्रहणेन सिचो न ग्रहणम्, तत्साहचर्यात् सुग्रहणेनापि सुजयं न गृह्यत इति भावः । विभाषा बहोविप्रकृष्टकाले । अविप्रकृष्टकालिकक्रियाजन्मगणनवृत्तेर्बहुशब्दाद् धाप्रत्ययो वा स्यात् । पक्षे कृत्वसुच् । बहुधा बहुकृत्वो वा दिवसस्य भुङक्त इति । दिवसे प्रातःसङ्गवाद्यव्यवहितकालिकोत्पत्तिविशिष्टा भोजनक्रियेत्यर्थः । ' कृत्वोऽर्थ प्रयोगे कालेऽधिकरणे' इति दिवसात्षष्टीति हरदत्तः । शेषत्वविवक्षायां षष्ठी इति तु नवीनाः । · रिति चेत् । मैवम्, उत्तरार्थं क्रियाग्रहणस्यावश्यकत्वात् । एकस्य सकृश्ञ्च । अभ्यावृत्तिरिति न संबध्यते । एकशब्देन ह्येकैव क्रियाव्यक्तिराख्यायते, तस्यास्त्वात्तेरसंभवात् । क्रियाग्रहणमिहार्थमावश्यकम् । अन्यथा 'आ दशतः संख्याः संख्येये वर्तन्ते' इत्येको भुङ्क्ते इत्यत्रापि स्यादिति । इह साधु पचतीत्यादिवदेकं भुङ्क्ते इति प्रयोगे प्राप्ते सकृच्छब्दप्रयोगार्थमिदं सूत्रमिति कैयटः । एकः पाक इत्यत्र तु अनभिधानान्नेति काशिका। संयोगान्तस्येति । इल्ब्यादिना सुलोप इति प्राचो ग्रन्थोऽयुक्त इत्याह न त्विति । सुतिसीति साहचर्याद्विभक्तय एव तत्र गृह्यन्त इत्यभिप्रेत्याह सिच इवेति । बहुधा दिवसस्य भुङ्क्त इति । शेषत्वविवक्षायां षष्ठी । 'कृत्वोऽर्थप्रयोगे कालेऽधिकरणे' इत्यनेन षष्ठीति हरदत्तोक्तिस्तु नादर्तव्या । शेषाधिकार बलेनाष्टसूत्र्याः समासनिवृत्तिफलकतया तिङन्तेनोदाहरणमिति प्रागुक्तनिष्कर्षविरोधादित्याहुः ।
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy