SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ hili ४४४] सिद्धान्तकौमुदी। [तद्धितेषु, प्राग्दीव्यतीय. (४-३-१३७ ) अण् । अशोऽपवादः । तई-तार्कवम् । वैसिडीकम् । १५१८ अपुजतुनोः षुक् । (४-३-१३८) प्राभ्यामण स्थाद्विकारे, एतयोः षुगागमश्च । त्रापुषम् । जातुषम् । १५१६ ओरम् । (४-३-१३६ ) देवदारवम् । भाददारवम् । १५२० अनुदात्तादेव । (४-३-१४०) दाधिस्थम् । कापि. स्थम् । १५२१ पलाशादिभ्यो वा । (४-३-१४१) पालाशम् । सादिरम् । कौस्तुभे विस्तर । कोपधाच्च । अणिति शेषः । तत्र प्रण्योषधिवृक्षेभ्योऽवयवे विकारे च, इतरेभ्यस्तु विकारे एव । तर्कु-तार्कवमिति । त• इति प्रकृतिनिर्देशः । तर्कुर्नाम वृक्षविशेषः, तस्यावयवो विकारो वेत्यर्थः । 'भोर' इत्यस्यापवादः अण् । तित्तिडीकशब्दो 'लघावन्ते-' इति मध्योदात्तः । 'अनुदात्तादेश्च' इत्योऽपवादः अण् । अपुजतुनोः षुक् । त्रापुषम् । जातुषमिति । त्रपुणो जतुनश्च विकार इत्यर्थः । ओरम् । उवर्णा स्यादित्यर्थः । प्रारयोषधिवृक्षेभ्यः अवयवे विकारे च, इतरेभ्यस्तु विकारे । देवदारवम् । भाददारवमिति । देवदारोभद्रदारोश्चावयवो विकारो वेत्यर्थः । 'पीतवर्थानाम्' इत्याद्युदात्तावेतौ। ततश्च 'अनुदात्तादेश्च' इत्यनेन गतार्थता न। अनुदात्तादेश्च । विकारे अमिति शेषः । 'अवयवे च' इति सूत्रमप्यत्र संबध्यते । दाधित्थमिति । दधित्थस्यावयवो विकारो वेत्यर्थः। एवं का पत्थम् । 'कपित्थे तु दधिस्थग्राहिमन्मथाः' इत्यमरः । अव्युत्पन्नप्रातिपदिकत्वात फिट्स्वरेणान्तोदात्तावेतौ । पलाशादिभ्यो वा । अनिति शेषः । अवयवे वेत्येव । पलाशखदिरशिंशपास्यन्दनानामनुदात्तादित्वाद् नित्यं प्राप्ते इतरेषाम् अप्रा' ते विकल्पोऽयम् । दिभ्योऽण् । अश्मयटोरपवादः । बिल्व, व्रीहि, काण्ड, मुद्ग, म पूर, गोधूम, इक्षु, कासी, वेरवादयो बिल्वादयः । अपुजतनोः। 'बिल्वादिभ्योऽण' इत्यतोऽनुवर्तनादाह-अण् स्यादिति । 'पोरञ्' इत्यस्यायमपवादः । अप्रागयादित्वादवयवे न भवतीत्याशयेनाह-विकार इति । त्रापुषमिति । त्रपुणो विकारः। एवं जतुनो विकारो जातुषम् । अोरञ् । अनुदात्तादेरन्यदिहोदाहरणम् । दैवदारवमिति । देवदारु-भद्दारुशब्दौ 'पीतवर्थानाम्' इत्यायुदात्तौ । दाधित्थमिति । दधनि तिष्टतीति 'सुपि स्थः' इति कः । उपपदसमासः । पृषोदरादित्वात्सकारस्य तकारः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तत्वम् । एवं कपित्थेऽपि बोध्यम् । पलाशादिभ्यो वा । उभयत्र विभाषेयम् । पलाशखदिरशिंशपास्यन्दनानामनुदात्तादित्वान्नित्यं प्राप्ते, करीरशिरीषविकङ्कतपूलाकयवासशब्दानामप्राप्ते विधानात् । पालाशमिति । पलाशशब्दो घृतादित्वादन्तोदात्तः । खदिरशब्दः 'अजिरशिशिर-' इत्यादौ किरच्प्रत्ययान्तो
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy