SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ टीकाकर्तुः परिचयः प्रस्ति पञ्चाम्बुदेशेऽस्मिन्, 'होश्यारपुर ' - मण्डले । जेजों नाम पुरी रम्या द्वीपमूनि व्यवस्थिता । १ । या पुरासीद्यशः पाल - भूपानां स्क्विशासने । राजधानी प्रशस्तेयं पूर्वं बृटिश शासनात् । २ । पण्डितानां कुलं तत्र प्रसिद्धं विद्यते परम् । सदाचाररतं शुद्धं हरिभक्तमथापि यत् । ३ । तत्पूर्वजः केशवोऽभूद् विद्वन्मण्डलमण्डनः । महात्मा भगवद्भक्तो मद्दग्रामवासकृत् । ४ । पुनः प्रचारयामास पाणिनीयमिहापि यः । लुप्तप्रायमधीत्यासो भवदेवमहोदयात् । ५ । रघुनाथस्तु तत्पुत्रो "मुकुन्दस्तत्सुतोऽभवत् । ६ रामचन्द्रो धूर्जटिश्च रामनारायणस्ततः' । ६ । रामनारायणस्यासंश्चत्वारः पण्डिताः सुताः । 'नीलकण्ठ उपेन्द्रश्च विश्वामित्रश्च १० पूर्वजाः । ७ । चतुर्थश्चास्मि विदुषां सात्वतां सेवकः सदा । दामोदरीगर्भजातो विश्वनाथ प्रभाकरः । ८ । उपकाराय छात्राणामुपेन्द्र विवृतिर्मया । सम्पादिता प्रयत्नेन शोधिता १ गुरुभिः पुनः । ६ । १ - द्वाबाप्रान्तशिराभागे । २ - " " जसवाल " इति प्रसिद्धजातीय - राजपूतराजानाम् । ३ = विद्या सागरो भगवद्भक्त श्रादर्शमहात्मा श्रद्ध े यचररणः पण्डित श्री केशवरामजी -महाराजः । ४-काश्यां तत्काले प्रथितमहिम्नो भैरव्यादिटीका कृद्-भैरव मिश्रपितुः श्री पूज्यपादपण्डितभवदेव मिश्रात् सकलवेदवेदाङ्गादिकमधिजग्मिवान् श्रीकेशवरामो विशेषतः पाणिनीयं व्याकरणम् । ५- पूज्यपादो भक्त्यैकनिष्ठः श्री पण्डितमुकुन्दलालजी - महाराजः ६- पं० रामचन्द्रात् प० परमानन्दादयः । ७- पं० धूर्जटिशमंणश्च पं० रामप्रपन्नादयः । 1 ८-ततः = पं० मुकुन्दलालात् 1 ६- वेदान्तसार्वभौमस्ताकिक चक्र चूडामणिभंगवद्भक्तो महात्मा श्रीपण्डित- नीलकण्ठशास्त्री । १० - ज्येष्ठाः । ११- काव्यव्याकरणदर्शन ती श्री मत्पण्डित राम प्रपत्रशास्त्रिभिः (इमे मम ज्येष्ठ पितृभ्यपुत्रतया भ्रातरो विद्यागुरवश्च ) 1
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy