SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ लघुसिद्धान्तकौमुद्याम् 'चिक्षथि, चिक्षेr । चिक्षियथुः । चिक्षिय । चिक्षाय, चिक्षय । चिक्षियिव । चिक्षियिम | क्षेता | क्षेष्यति । क्षयतु | अक्षयत् । क्षयेत् । '४८३ अकृत्सार्वधातुकयोर्दीर्घः ७ । ४ । २५ । अजन्ताङ्गस्य दीर्घो यादौ प्रत्यये न तु कृत्सार्वधातुकयोः । श्रीयात् । ४८४ सिचि वृद्धिः परस्मैपदेषु ७ । २ । १ । इगन्ताङ्गस्य वृद्धिः स्यात् परस्मैपदे सिचि । अक्षैषीत् । अक्षैष्टाम् । अभैषुः । अक्षेष्यत् । तप सन्तापे । १४ । तपति । तताप । तेपतुः । तेपुः । तेपिथ । 'ततप्थ । तप्ता । तप्स्यति । तपतु । अतपत् । तपेत् । तप्यात् । अताप्सीत् । अताप्ताम् । अतप्स्यत् । क्रमु पादविक्षेपे । १५ ४८५ वा भ्राश-भ्लाश-भ्रमु क्रम - कुमु त्रसित्रुटि-लपः ३ । १ । ७० । एभ्यः श्यन् वा कर्त्रर्थे सार्वधातुके परे । पक्षे शप् । ४८६ क्रमः परस्मैपदेषु ७ । ३ । ७६ । १२८ नित्यमनिड् भवति, क्रादिनियमेन सर्वत्र प्राप्तस्येटस्थलि अजन्तत्वात् 'अचस्तास्वत्थल्यनिटः' इति पाणिनिमतेन, "ऋतो भारद्वाजस्य " इति भारद्वाजमतेनापि - इनिषेधात् । यथाजह | दध । यस्तु न स्यादजन्तो नाप्यकारवान् स च तासौ नित्यानिडपि लिटि सर्वत्र सेट एव क्रादिनियमात् । १ - चिक्षयिथ- 'क्ष' धातोः लिटि सिपि तस्य थलादेशे द्वित्वेऽभ्यासकार्ये 'ऋतो भारद्वाजस्य' इति 'सार्वधातुकार्धधातुकयोः' इति गुणेऽयादेशे सिध्यति रूपं 'चिक्षयिथ' इति । पक्षे इडभावे गुणे 'चिक्षेथ' इति । २ - कृत्सार्वधातुकयोस्तु संचित्य, शृणुयात्, इत्यादौ न दीर्घः । ३ - अक्षैषीत् - 'क्ष' धातो लुङि तिपि अडागमे तिप इकारलोपे चलो, ब्लेः सिचि इनिषेधे 'अस्ति सिचो ऽपृक्ते' इति इटि 'सिचि वृद्धिः परस्मैपदेषु' इति वृद्धौ सिध्यति रूपम् 'अक्षेपीत्' इति । ४ - भारद्वाजमते 'इट् अन्यमते तदभावः । ४७३- अजन्त अङ्ग को दीर्घ होता है यादि प्रत्यय परे रहते । कृत् और सार्वधातुक परे रहते नहीं होता । ४८४ - इगन्त अङ्ग को वृद्धि होती है परस्मैपदपरक सिच परे रहते । ४८५ - श्राशादि धातुओं को विकल्प इन् होता है कर्थ सार्वधातुक परे रहते । ४८६ - क्रम धातु को दीर्घ होता है परस्मैपदपरक शित् परे रहते ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy