SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीमुनिसुन्दरसूरिविरचितः। सेवागतामरनरावलिपापवैरि प्रध्वंसनप्रगुणिता इव यस्य भान्ति । आमेयशस्त्रनिवहास्तनुकान्तिरूपाः पायाद्भवात्स भवतः प्रभुवासुपूज्यः॥ १३ ॥ को ना- जनितो विनाऽपि हि पतिं कस्मिन् भवेच्चन्दनं का मान्या गृहिणां स्फुटा यदभिधा प्रश्नादिवर्णैर्भवेत्। कीदृग् ध्यानतपःश्रुतैर्जिनमतैः प्राणी भवत्यञ्जसेत्येवं च प्रतनोतु वः स भगवान्नामानुरूपां धियम् ॥१४॥ नेत्रश्रीर्जलराशिगूढविलसत्काभ्यार्थरनोच्चयान् योऽभूदर्शयितुं पुराऽत्र विबुधवातस्य धत्ते च यः । पृथ्वी कीर्त्तिततिं, तथा सदऽमृतप्राप्तिर्यदाज्ञावशा, पायागोगिकुलोद्भवः सविशदः श्रीमाननन्तः प्रभुः॥१५॥ मङ्गलं प्रवितनोतु भाविना धर्मतीर्थपतिरामरद्रुमः। यत्प्रसादमहिमाणुजृम्भितं चक्रिशक्रशिवशर्मसम्पदः ॥ १६ ॥
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy