SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ७६ श्रीमुनिसुन्दरसूरिविरचितः । श्रीशंभवः स जीयात् प्रापयितुं शिवपुरं जवाद्भव्यान् । बिभ्रत्सार्थाधिपतां धत्ते योऽङ्कच्छलादश्वम् ॥ ४ ॥ बध्नाति चेतांसि गुणैस्त्रिलोक्या मत्तोऽप्ययं जिलरचापलानि । इतीव भीत्याऽङ्कनिभादुपास्ते यं वानरः पात्वभिनन्दनोऽयम् ५ कल्याणावलिमातनोतु भवतां निस्सीममाहात्म्यभृदेवानामपि देवता स सुमतिः श्रीतीर्थ लक्ष्मीपतिः । रूपं यस्य हरिः क्षमो न दशभिश्चक्षुः शतैर्वीक्षितुं विंशत्या रसनाशतैरपि धृतैर्वक्तुं गुणांश्चाहिराट् ॥ ६ ॥ त्यक्त्वा वारिरुहं जलाशयरति सेवा यदंहिस्फुरल्लावण्यामृतपल्वलस्य कुरुते नित्यं यदङ्कच्छलात् । तत्पुण्येन लभेत तत्सुरनराधीशोत्तमाङ्गेष्ववस्थानं मुक्तिपदप्रदोऽस्तु भवतां श्रीमान् स पद्मप्रभः||७|| स्फुरत्तरस्फार फणालिरूपिणी, रत्नांशुजालैर्दधदिद्धपल्लवाः । यः पञ्चशाखाः समभूत्सुरद्रुमः स चिन्तितं रातु सुपार्श्वतीर्थकृत् ॥ ८ ॥
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy