SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ पुद्गलसङ्ख्यास्तवनम् । स्पृशतः क्रमोक्रमाभ्यां क्षेत्रे स्थूलस्तदावर्तः ॥ ५॥ प्राग् मृत्युभिः क्रमेण च लोकाकाशः प्रदेशसंस्पृशतः। मम यो जिन सर्वः स्वामिन् क्षेत्रे सूक्ष्मस्तदावर्त्तः॥६॥ मम सकलकालसमयान् संस्पृशतोऽतीतमृत्युभिर्नाथ । अक्रमतः क्रमतश्च स्थूलः काले तदावर्त्तः ॥७॥ क्रमणस्थानेव समान् प्राग्भूतैर्मृत्युभिः प्रभूतैर्मे । संस्पृशतः सूक्ष्मोऽर्हन् कालगतः पुद्गलावतः ॥ ८॥ अनुभागबन्धहेतून् सङ्ख्यालोकाभ्रदेशपरिसङ्घयान् । मृयतः क्रमोत्क्रमाभ्यां भावे स्थूलस्तदावर्तः ॥ ९ ॥ प्राग् मरणैः सर्वेषामभितेषां यः क्रमेण संक्लेशः। भावे सूक्ष्मः सोऽभूज्जिनेश विश्वत्रयाधीश ॥१०॥ नानापुद्गलपुद्गलावलिपरावर्त्ताननन्तानहं पूरं पूरमियच्चिरात्कियदिशं बाढं दृढं नोढवान् । दृष्टादृष्टचरं भवन्तमधुना भक्याऽर्थयामि प्रभो तस्मान्मोचय रोचय खचरणं श्रेयः श्रियं प्रापय ॥११॥ इति पुद्गलसङ्ख्यास्तवनं समाप्तम् ।
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy