SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ४४ श्रीजिनमुन्दरसूरिकृत कासश्वासशिरोतिकुष्ठपिटकश्लेष्मोरुकण्डूज्वरो दावर्तक्षयशोफमण्डलमुखैरोगैरलं पीडिताः । देव बच्चरणाम्बुजन्मशरणं प्राप्ताः प्रतिज्ञान्विता ध्वस्ताशेषरुजावजा हि मनुजाः सज्जा भवन्त्यञ्जसा॥८॥ निःसत्वव्यसनौघविघ्नविषमव्याधिव्यथाविह्वला विश्वाधीश तव प्रसादवशतो निमन्तवो जन्तवः । वेगादेव गताखिलानभिमता वीतापदः सम्पदः सद्यः स्युः प्रतिपद्य हृद्यमुदयं चानन्दमेदखिनः ॥९॥ लक्ष्मीराज्यभिलाषिणोऽधिकरमा भोगान् सुभोगार्थिनः पुत्रान् पुत्रकृतस्पृहा बहुगजं राज्यं च राज्यच्युताः । नेतश्चक्षुरचक्षुषो निरुपमं रूपं कुरूपा नरास्त्वत्तःस्तुत्यकलाः कलापविकला दिव्यं बलं दुर्बलाः।१०। नव्यां काव्यकलां सदाऽप्यकवयोऽजल्पाश्च जल्पाकतां प्रागल्भ्यं भृशमप्रगल्भमनसो विद्यामविद्यान्विताः। तत्त्वज्ञानमतात्त्विका यदखिलाभीष्टं लभन्ते ततो.. देवः कामिततीर्थमित्थमखिले ख्यातं गतो भूतले॥११॥
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy