SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ श्रीजिनस्तुतयः। ॥ अहम् ॥ स्फूर्जद्भक्तिनतेन्द्रशीर्षविलसत्कोटीररत्नावलीरङ्गत्कान्तिकरम्बिताद्भुतनखश्रेणीसमुज्जृम्भितम् । सिद्धार्थाङ्गरुहस्य कीर्तितगुणस्याहिद्वयं पातु वः स्नातस्याप्रतिमस्य मेरुशिखरे शच्या विभोः शैशवे ॥१॥ श्रेयः शर्मकृते भवन्तु भवतां सर्वेऽपि तीर्थाधिपाः, येषां जन्ममहः कृतः सुरगिरौ वृन्दारकैः सादरैः । पौलोमीस्तनगर्वखण्डनपरैः कुम्भैः सुवर्णोद्भवैः, हंसांसाहतपद्मरेणुकपिशक्षीराणवाम्भोभृतैः ॥ २ ॥ सेवे सिद्धान्तमुद्यत्सकलमुनिजनप्रार्थितामर्त्यरत्नं गर्जदाचाटवादिद्विरदघनघटादर्पकण्ठीरवाभम् । मिथ्याधर्मान्धकारे स्फुटविकटकरादित्यमल्पप्रभंनो अर्हढक्रप्रसूतं गणधररचितं द्वादशाङ्गं विशालम्॥३॥ दक्षो यक्षाधिराजोमहिमगुणनिधिश्चण्डदोर्दण्डधारी सर्वः सर्वानुभूतिर्विदलयतु मुदा सङ्घविघ्नं महौजाः । अध्यारूढोद्दिपेन्द्रं वरभवनगतस्तम्भहस्तोत्कटास्यं निष्पङ्कव्योमनीलद्युतिमलसदृशं बालचन्द्राभदंष्ट्रम्॥४॥ इति श्रीवीरजिनस्तुतयः । ३
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy