SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ २९ श्रीजिनस्तुतयः । भवजलनिधिपोतः सर्वसम्पतिहेतुः प्रथितघनघटायां सर्पकान्तप्रकारः ॥ ३ ॥ . जयविजयमनीषामन्दिरं ब्रह्मशान्तिः सुरगिरिसमधीरःपूजितोन्यक्षयक्षैः । हरतु सकलविघ्नं यो जने चिन्त्यमानः स भवतु सततं वः श्रेयसे शान्तिनाथः ॥४॥ इति शान्तिजिनस्तुतयः ॥३॥ ॥ अहम् ॥ श्रेयःश्रियां मङ्गलकेलिसद्म श्रीयुक्तचिन्तामणिपार्श्वनाथ । दुर्वारसंसारभयाच्च रक्ष मोक्षस्य मार्गे वरसार्थवाहः॥१॥ जिनेश्वराणां निकरे क्षमायां नरेन्द्रदेवेन्द्रनतांहिपद्म । कुरुष्व निर्वाणसुखं क्षमाभृत् सत्केवलज्ञानरमां दधान॥२॥ कैवल्यवामाहृदयैकहार क्षमासरवद्रजनीशतुल्यः। सर्वज्ञ सर्वातिशयप्रधान तनोतु ते वाग्जिनराज सौख्यम् ॥ श्रीपार्श्वनाथक्रमणाम्बुजातसारङ्गतुल्यः कलधौतकान्तिः। श्रीयक्षराजोगरुडाभिधानः चिरञ्जय ज्ञानकलानिधान॥४॥ इति पार्थजिनस्तुतयः ॥४॥
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy