SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २४४ श्रीगुणविजयमणिविरचितः । भूदेवो मरुभूतिकश्च करटी देवोऽष्टमे खेचरो मत्त्र्त्यः क्षोणिपतिः सुरः समजनि श्री सार्वभौमे महान् । अस्वप्नस्त्रिदिवे बभूव दशमे प्रोद्यत्प्रभापेशल: श्रीपार्श्वो भुजगेन्द्रचर्चित पदः पुण्यानि पुष्णातु वः॥२४॥ ग्रामस्वाम्यमरो मरीचिरमृताहारः परिव्राजकः षोढा चामृतभुक् भवोऽतिबहुलः श्रीविश्वभूतिर्मरुत् । विष्णुर्नैरयिको हरिश्व नरके भ्रान्तिर्भवान्तर्बहुवक्री नाकिवरोऽथ नन्दननृपः खर्गेऽवतात् त्रैशलः॥२५॥ इत्थं श्रीवृषभाङ्कचन्द्रजिनपश्रीशान्ति कूर्मध्वजश्री कम्बुध्वजपार्श्ववीर विजयाजातप्रभृत्यर्हताम् । विश्वक्ष्मामुनिभानुनन्दनिधिदिक्डीपाक्षधूमध्वजाः प्रौढप्रीतिमतां भवन्तु भवतां प्रोक्ता भवाः सिद्धये ॥२६॥ वर्षे व्योममतङ्गजतुकुमिते राजादनीबान्दरे नाभेयादिजिना इति स्तुतिपथं नीताश्चतुर्विंशतिः । प्राग्भारेण मुदो गुणादिविजये प्रोद्भूतसद्भावतो देयासुर्विविधश्रियः सुभगतामानन्दकन्दाम्बुदाः ॥२७॥ इति श्री २४ जिनभव १३८ स्तवः ।
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy