SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ श्री जिनस्तोत्ररत्नकोशः । अशेषतः सर्वविदोऽपि भक्तान् सीमन्धर प्रापयतः शिवं ते । किं विस्मृतोऽहं यदि दूरगत्वातत्ते न युक्तं ह्यसि दूरदर्शी ॥ २३ ॥ वृषाङ्कितोऽसीति वृषाङ्कितं मां कुरुष्व सम्यक् कृपया प्रसद्य । २०७ भवामि युक्तं तव सेवको य देयाः स्वसाम्यं च ममाग्रतोऽपि ॥२४॥ श्रीसीमन्धरतीर्थनाथ मयका स्तुवैवमभ्यर्थ्य से नाम्नाऽहं मुनिसुन्दरोऽभवमथो कुर्याः प्रसादं तथा । स्यां सर्वज्ञयथार्थतोऽपि विशदज्ञानादिरत्नत्रयालब्ध्वा कर्म्मजयश्रियं शिवपुरे राज्यं लभे चाचिरात् ॥२५॥ इति युगमधानावतारवृहत्तपागच्छाधिराज श्रीदेव सुन्दरसूरिश्री ज्ञानसागरसूरि श्री सोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरमूरिभिर्विरचिते जयश्यङ्के श्रीजिनस्तोत्रraniशे प्रथमप्रस्तावे श्रीसीमन्धरस्वामिस्तोत्ररत्नं एकोनविंशतिमम् ।
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy