SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १९० श्रीमुनिसुन्दरसूरिविरचितः । त्वया पिशाचो जिन मोहनामक - स्तिरस्कृतो यः शिवशर्मकाङ्क्षिणा । स नूनमाराधनतः श्रितः परै र्बलेन चास्य ग्रहिलीकृतं जगत् ॥ १५ ॥ तवेश देवान्तरतो वदन्ति येऽधिकत्वमेतानपि निन्दकान् वदे । स्तुतिः किमाधिक्यविवर्णने भवे - न्महाम्बुराशेर्मृगतृष्णिकाऽम्बुतः ॥ १६ ॥ भयं न तेषां भवदुःखसम्भवं बिडम्बना मोहपिशाचजाऽपि च । शशाम नो शाम्यति वा शमिष्यति प्रभुर्न येषां शरणं त्वमङ्गिनाम् ॥ १७ ॥ यथा भवापायनिदानमाश्रवाः शिवश्रियो हेतुरनाश्रवास्तथा । त्वमेव तान् सम्यगवग्, न तत्प्रभो परं शिवस्यौपयिकं त्वदीरितात् ॥ १८ ॥
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy