SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ श्रीजिनस्तोत्ररत्रकोशः। १८५ कुज्ञानदर्शनकपाटयुगेऽभविष्यद् दुर्लक्षता तव विभो यदि नार्गलेयम् । मोहोच्चदुर्गमतिगत्य सुदर्शनाप्ति द्वारेण के शिवपुरं न तदाऽध्ययास्यन् ॥२१॥ निर्दोषे ते भुवनविदितेऽप्यद्वितीये चरित्रे ___ मुह्यन्नहन्नपि शिवगमी तीथिकैः सङ्गतोऽङ्गी । छन्नः काचैरिव वरमणिर्या विनेष्टार्थभामो सामग्री तामभवफलदां देहि यत्स्यां कृतार्थः॥२२॥ दानं चारु न मे न शीलमतुलं नोग्रं तपो नो स्थिरो भावो नातिदया क्रियासु न रुचिर्नान्योऽपि कश्चिद्गुणः । भावि ब्रह्म तथाऽप्यतः स्तवनतः सम्बन्धमात्रेण ते तुच्छादप्यमवैवमस्मि मुदितश्चिन्ता तवैवाग्रतः ॥२३॥ देवसुन्दर मुदैवमनन्त ज्ञानसागर मयाऽपि नुतोऽर्हन् । सोमसुन्दरतरां कुरु बोधि । स्याघतो मम भवारिजयश्रीः ॥ २४ ॥
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy