SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ श्रीजिनस्तोत्ररत्रकोशः। १२३ तपांसि पुंसां ददते न तफलं न यन्त्रमन्त्रा न च योगसाधनाः । न चापि देवान्तरपर्युपासना स्तनोति यत्ते स्तवनं मनोऽतिगम् ॥१९॥ महोन्नता शुद्धपदस्थितिप्रदाऽ __ वदातसोपानततिप्रनिर्मिता । दधाति निःश्रेणितुलां तव स्तुतिः शिवालयारोहकरी मनखिनाम् ॥२०॥ स्तुमस्तमेकं धरणं फणीश्वरं तवानुकम्पाफलभोगशालिनम् । भवान्तरे यं परमोष्ठिमन्त्रदः स्वयं भवानन्वशिषजगद्गुरुः ॥२१॥ दधाति लोलाश्रवसः स विंशति शतानि चक्षुः श्रुतिराट् ततः किल । गुणास्तव स्तोतुमवोक्षितुं श्रियं प्रभावमाकर्णयितुं च सर्वतः ॥ २२ ॥
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy