SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ श्री जिनस्तोत्ररत्नकोशः । भवन्ति सर्वेष्टरमावुवुर्षवो जिहासवो दूरमुपद्रवाश्च यम् । स्पृहाऽपि तस्यैव तव स्तवे भवेत् फलाय सत्कर्म्ममनोरथोऽपि यत् ॥ ११ ॥ सबोधिकारोग्यमुपेयमिच्छतां स्तुतिं तवैवौपयिकं जगुर्बुधाः । इति प्रयत्नो ऽत्र ममाप्ययं भवन् कृतार्थतामृच्छतु ते प्रसादतः ॥ १२ ॥ भवत्यसाराऽपि हि गीरनन्तसगुणे प्रयुक्ता मम विस्तरीष्यते । सरित्पतिं प्राप्य भवेत् प्रसारिणी १२१ सरित्तनीयस्यपि नाभितः किमु ॥ १३ ॥ सुसम्पदस्ताः शुभशक्तयोऽपि वा त्वदेकभक्यव्यभिचारिहेतुकाः । ममापि सैषोऽनुभवः स्फुरन् कथं भिनत्ति ते पार्श्व नुतौ न मन्दताम् ॥ १४ ॥
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy