SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ श्रीजिनस्तोत्ररनकोशः। ११९ इहाप्यहीन्द्रो धरणः प्रसत्तिभाक् यया तनोतीष्टसुखानि सप्रियः । परत्र चाप्याः शिवसम्पदोऽपि तां न का स्तुतिं पार्श्वविभोर्विधित्सति ॥ ३ ॥ गुणाननन्तान् क्रमवर्तिवाग् न ते भवाम्यलं स्तोतुमितीश वेम्यहम् । तथापि ते भक्तिरसैकवेदनं वेद्यान्तरं पार्श्व विचारमस्यति ॥ ४ ॥ अपारयन् वक्तुमयं जनः प्रभो सतोऽपि ते ऽनन्ततयोज्वलान् गुणान् । कथं परेषु स्तुक्तोऽसतोऽपि तान् कुतीर्थिकांश्चित्रकृतो न वन्दते ॥५॥ ॥ अथवा ॥ अशेषतो नाथ ममैव न स्तवै में नूयसे किन्तु सुयोगिनामपि । न पूर्यते यः किल धूमरीकणे स्तथैव सिन्धुः स सरिगणैरपि ॥ ६ ॥
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy