SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ सर्ग १४ श्लो० ८४-८६] हीरसौभाग्यम् अथ गुरोः शिष्यानां नामावधारणानन्तरं महीमरुत्त्वान भूमीन्द्रः । 'पृतनाषाडुग्रधन्वा मरुत्त्वान्मधवा' इति हैम्याम् । प्रमदादानन्दात् उपदां प्राभृतमिव मुनीशितुः सूरेः पुरोऽने पुस्तक ढोकयति स्म । किंभूतं पुस्तकम् । अङ्गजन्मना शेखूजीनाम्ना वृद्धपुत्रेण गृहात्स्त्रभवनमध्यादानायितं लोके 'अणाव्यु' इति प्रसिद्धं च पुनः खानखानेन मीयांखाननाम्ना साहिसामन्तेन साहेराप्तेन ततः संग्रामे गूर्जरपातिसाहिविजयविधानसमये श्रीमदकम्बरपातिसाहिरा स्वयं खानखान इति दत्तविरुदेन अग्नतो नृपपुरस्तात् आनीय मुक्त साहिप्रतिशिष्टशेखूजामृनुना मन्दिरमञ्जूषाभ्यो निष्काश्य मीयांखानस्य हस्ते प्रदत्तं तेन च नृपाग्रे पुजीकृतत् ॥ શ્લોકાર્થ બાદશાહના જ્યેષ્ઠપુત્ર શેખજીએ ગૃહમંજૂષામાંથી કાઢીને પુસ્તક ખાનખાનને આપ્યું, અને ખાનખાને તે પુસ્તક બાદશાહની આગળ મૂકવું. અતિઆનંદિત બનેલા બાદશાહે તે પુસ્તક સૂરિજીનાં ચરણકમલમાં ભેરણારૂપે કર્યું. એ ૮૪ ततस्तदुन्मुद्य पुरो धराविधोरवाचि वाचंयमपुगवैर्गुरोः । रहस्यमेतस्य पुनयंगादि तैरमुष्य सख्युः सखिवत्स्वचेतसः ॥ ८५ ॥ तत आनयनानन्तरं प्रभोः सूरेः वाचंयमपुंगवैयतिकुञ्जरेः पण्डिताखण्डलैः तत्पुस्तकमुन्मुख समस्ताः पुस्तिकाश्छाढयित्वा धराविधोर्मेदिनीन्दाः पुरोऽग्रे अवाचि वाच्यते स्म । पुनस्तीतारितस्य साहेः पुरोऽमष्य पुस्तकस्य मध्ये लिखितस्य शास्त्रस्य रहस्यम् इदं पुस्तकमेतन्नाम शाखमत्र चैतद्वाच्यमित्यादि हार्द न्यगादि कथितम् । किंवत् । सखिवत् । यथा सखिभिर्मित्रैः सख्युः स्वकीयनिरन्तरमनसः सख्युः पुनः स्वचेतसो निजहृदयस्य रहस्य' गुह्यं हार्द निगद्यते प्रोच्यते ।। લેકાર્થ આચાર્ય ભગવંતના પંડિત શિષ્યોએ તે પુસ્તક ખોલીને રાજાની આગળ વાંચ્યું અને મિત્ર જેમ મિત્રની આગળ હૃદયને કહે તેમ મુનિપુંગવેએ તે પુસ્તકના રહસ્યને રાજાને જણાવ્યું. મેં ૮૫ . उदीतमङ्गैरिह रुद्रविग्रहैरिवास्तपुष्पध्वजकालकेलिभिः । पुनस्तमस्तोमभिदाविदांवरैः परैरुपाङ्गैरिव पमिनीवरैः ॥ ८६ ॥ इह पुस्तकगञ्जकमध्ये रुद्रा एकादश तेषां विग्रहैरङ्गैरिव एकादशसंख्याकैः आचाराङ्गसूत्रकृदङ्ग-स्थानाङ्ग-समवायाङ्ग-विवाहप्रज्ञप्ती-ज्ञाताधर्मकथाङ्ग-अन्तकृद्दशान्त-अपासकदशा
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy