________________
८५८
हीरसौभाग्यम्
[सर्ग १७ : श्लो० १६४-१६५
શ્લેકાર્થ
ચાર ગતિએને નિષેધ કરનારી એવી નમસ્કાર મહામંત્રની ચાર માળા ગણીને પાંચમી માળા ગણવાનો પ્રારંભ કર્યો. તે પાંચમી માળા જાણે પિતાને પાંચમી ગતિ–મેક્ષગતિ પ્રાપ્ત કરાવવા માટે ન હોય. મે ૧૬૩ છે
अथोन्नताख्यस्य पुरस्य पार्श्व ग्रामे सपद्मे सरसीरुहीव । समुद्रशायीव युतोऽङ्गजेन द्विजाग्रणीः कोऽपि बभूव भट्टः ॥ १६४ ॥ .
अथापराधिकारे एतस्मिन् समये च कोऽपि कश्चिदनिर्दिष्टनामा भट्टः । स्वयमध्येतुः पराध्यापयितुश्च विद्वद्विजस्य भट्ट इति नामोच्यते । स भट्टो बभूव । किंलक्षणः । द्विजाग्रंणी झणमुख्यः । पुनः किंभूतः । अङ्गजेन स्वनन्दनेन युतः । क इव । समुद्रशायीव । 'दासाहः पुरुषोत्तमोऽब्धिशयनः' इति हैम्याम् । यथा नारायणः अङ्गजेन लक्ष्मीतनुजेन प्रद्युम्नेन सहितः कमनः । 'कलाकेलिरनन्य जोऽङ्गनः' इत्यपि हैम्याम् । भट्टः कुत्रस्थाने । उन्नत इत्याख्या नाम यस्य तादृशस्य पुरस्य पार्श्वे समीपभाजि कापि संनिधिवति नि ग्रामे । किंभते । सपदमे सह पाया लक्ष्म्या वर्तते यः सः । कस्मिन्निव । सरसीरुहीव । यथा कमलं लक्ष्मीकलित भवेत् ॥
બ્લેકાર્થ
કમલસહિત સરોવરની જેમ ઊના નગરની પાસેના કેઈ ગામમાં જેમ કામદેવ સહિત વિષ્ણુ શેભે છે તેમ પુત્ર સહિત કોઈ શ્રેષ્ઠ બ્રાહ્મણ રહેતો હતો. જે ૧૬૪
दिव्यं विमानं पवमानमार्गे नक्तं दृशा बिम्बमिवैन्दवीयम् । सनन्दनो मन्दिरचन्द्रशालामालम्बमानः स विलोकते स्म ।। १६५ ॥
स भट्टो नक्तं प्रथमरात्रिसमये दृशा स्वलोचनेन पवमानमार्गे गगनाङ्गणे दिव्य देवतासंबन्धि विमान देवानां गमनगमनासनयान विलोकते स्म दृष्टवान् । उत्प्रेक्ष्यते-अन्दवीय चन्द्रसंबन्धि बिम्ब मण्डलमिव । किंभूतो भट्टः । सनन्दनः तत्रावसरे पुत्रयुक्तः स्वाङ्गजेन सहोपविष्टोऽस्ति । किं कुर्वाणः मन्दिरस्य स्वगृहस्य चन्द्रशालां शिरोगृहमुपरितनभूमिका. मालम्बमान आश्रयन ।