SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ = ४८२ हीरसौभाग्यम् [सर्ग १४ श्लो० ४३-४५ तृणादि नेोपाददते च किंचनाप्यदीयमानं मुनयो महीमणे । पदं किलाविश्वसितेरिबैकदृक्ततेररिष्टः पृथिवीपुरंदर ॥ ४३ ।। हे महीमणे भूमीरत्न, च पुनर्मुनयः साधवः तृणादि दन्तशोधनमात्रप्रमुख किंचिदपि वस्तु अदीयमानं केनाप्यविश्राण्यमानं नोपाददते नैव गृह्णन्ति । हे पृथिवीपुरंदर मेदिनी. मण्डलाखण्डल, किलेति निश्रित श्रूयते वा । हेतोर्वा । 'किल संभाव्यवार्तयोः । हेत्वरुच्यारलीके च' इत्यनेकार्थः । अस्माकं तु सर्वथापि तत्काराणाभावात् लोके जने एवकर्ण्यते । अदत्तादानं वस्तु स्वामिना कथमप्यदीयमानवस्तुनो ग्रहणमविश्वसितेरविश्वासस्य पदं स्थानमास्ते । क इव । अरिष्ट इव । यथा निम्बतरुः । 'निम्बोऽरिष्टः पिचुमन्दः' इति हैम्याम् । एकहक्ततेः काकश्रेण्या निवासस्थान स्यात् ।। લેકાર્થ ત્રીજા વ્રતમાં-રાજેન્દ્ર, માલિકના આપ્યા સિવાયની એક તૃણમાત્ર વસ્તુને પણ મુનિએ ગ્રહણ કરતા નથી. જેમ લીમડે કાગડાનું નિવાસસ્થાન છે તેમ અદત્ત વરતુને ગ્રહણ કરવાથી ખરેખર મનુષ્ય અવિશ્વાસનું ભાન બને છે. ૫ ૪૩ . अदत्तमादत्त न यस्त्रिधापि तं वृणोति विद्येव विनीतमिन्दिरा । मृगी मृगेन्द्रादिव दुर्गतिस्ततः प्रयाति दूरादवनीनभोमणे ॥ ४४ ॥ हे अवनीनभाभणे प्रतापवत्त्वाद्भूमीभानो, यः पुमान त्रिधापि मनोवचनतनुभिः कृत्वा अदत्त वस्तु स्वामिना न विश्राणित यो नादत्त न जग्राह त पुमांसं इन्दिरा लक्ष्मीः स्वयमागत्य वृणोति वरयति । भजते इत्यर्थः। कमिव । विनीतमिव । यथा विनयवन्त शिष्य विद्या निषेवते पुनस्ततस्तस्मान्निःस्पृहान्नरादुर्गतिर्नरकादिकुगतिर्दृरात्प्रयाति पालयते । क इव । मृगीव । यथा मृगेन्द्रान्मृगी कुरङ्गी दूरात्प्रयाति ।। इति तृतीय व्रतम् ।। શ્લેકાર્થ હે રાજન, વિનયી શિષ્યને જેમ વિધા આપોઆપ ફૂરે છે તેમ જે પુરુષ મન, વચન, કાયાથી અદત્ત વસ્તુને ગ્રહણ કરતું નથી તેને લક્ષમી સ્વયં આવીને વરે છે. અને જેમ મૃગલી સિંહથી દૂર દૂર ભાગી જાય છે તેમ તેનાથી દુર્ગતિ દૂર દૂર ચાલી जय छ. ॥ ४४॥ पराङमुखी स्याद्विषयाव्रतिव्रजो निकुञ्जवासीव तदेकभूमिषु । क्षमाधरो येन महोदयंगमी वशास्वनीतिष्विव कोऽनुरज्यते ॥ ४५ ॥
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy