SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ६५० हीरसौभाग्यम् [ सर्ग १५ श्लो० ४६-४८ જયપર્વત પેાતાની સાર્વભૌમતાને ધારણ કરે છે. કૃપાવંત એવા તે પર્વત, સાતદ્વીપ સમુદ્રપય ́ત પૃથ્વીના ભારથી જેનું શરીર વળી ગયું છે, તે શેષનાગના શ્રમ દૂર કરતા ન હાય! અર્થાત્ જાણે શેષનાગને રાહત આપતા ન હોય! ॥ ૪૬ ૫ गगनगऩयदग्रस्फारकासारफुल्ल त्कुमुदकुवलयाङ्काद्भृङ्गरिछोलिकाभिः । निशि शशिनमवेक्ष्याधावि मुग्धाभिरूर्ध्व सुरसरिदलिलीलापुण्डरीकभ्रमेण ॥ ४७ ॥ भृङ्गाणां भ्रमराणां रिञ्छोलिकाभिर्देशीभाषया श्रेणीभिर्निशि रात्रौ शशिन शशलाञ्छनं चन्द्रमवेक्ष्य दृष्ट्वा ऊर्ध्वमुच्च गगन' प्रत्यधाधि उड्डीनम | केन । सुराणां देवानां सरिनदी गङ्गा तस्या अलिभिर्मधुपानागतमधुकरैर्युक्त यल्लीलापुण्डरीकं क्रीडाकरणार्ह सिताम्भोज तस्य भ्रमेण भ्रान्त्या । कस्मादधावि । गगने आकाशे गतं प्राप्तं यद्यस्य शत्रुजयस्याग्रमुपरितनशिखरं तस्मिन् स्फारो मनेाज्ञः पानीयपूर्णो यः कासारः पञ्चवर्णचन्द्रि काविकाशिसूर्यविकाशिकमलाकरस्तडागस्तत्र फुल्लतां निशाकरकर संपर्काद्विकस्वरीभवतां कुमुदानां कैरवाणां कुवलयानामुत्पलानामङ्कात्क्रोडात् । किंभूताभिः भृङ्गरिञ्छोलिकाभिः । मुग्धाभिः अज्ञानाभिः सदसद्विवेक विकलाभिर्विचाराचतुराभिः सार्धपशुभिरिव । यदुक्तम'हे मालति म्लायसि किं यदेष चुचुम्ब तुम्बी कुसुम षडङ्घ्रिः । प्राणी चतुर्भिश्चरणैः पशुश्चेत् षडभिरध्यर्धपशुर्न किं स्यात् ॥' इति ॥ શ્લાકા રાતે ચન્દ્ર જોઈને આકાશગંગામાં રહેલા પુંડરિકકમલની ભ્રાન્તિથી, ગગનચૂખી શિખર ઉપર રહેલા સુંદર સરેાવરનાં ચન્દ્રવિકાસી અને સૂવિકાસી કમલેામાંથી મુગ્ધ ભ્રમરાની પ'કિતએ જાણે ઊંચે દોડાદોડ કરી દીધી. ॥ ૪૭ ।। विकसितकुसुमाली कर्णिकालीनपीनध्वनदनयनपेयामेय रोलम्बरावः । क्वचन रजतशृङ्गे चम्पकद्रुश्चकासे कविरिव कृतवेदोद्गारहंसाधिरूढः ॥ ४८ ॥ क्वचन कुत्रापि शत्रुंजयस्थानकविशेषे रजतशृङ्गे रूप्यशिखरे चम्पकब्रुर्हेमपुष्पपादपः चकासे दिदीपे । किंभूतश्चम्पकद्रुः । विकसितानां विकाशं प्राप्तानां कुसुमानां चम्पकपुपाणामालीनां श्रेणीनां कर्णिकासु बीजकोशेषु लीना मकरन्दपानार्थ मध्ये प्रविश्य निश्च
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy