SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ हीरसौभाग्यम् [सर्ग १४ श्लो० २८९-२९१ स सूरिस्तत्सर्वं भूपाकारणवाचिकमनूचानाय विजयसेनसूरये न्यवेदयत्कथयांचकार । किं कृत्वा । इत्यमुना प्रकारेण संतय॑ विचार्य । इति किम् । यदेष पातिसाहिः कथमपि केनापि प्रकारेण आत्मना स्वेन मामिव आचार्यमपि द्रष्टुं विलोकयितुं काङ्कति कामयते वास्छति ॥ શ્લેકાર્થ બાદશાહના દૂતે દ્વારા થાપણની જેમ અર્પણ કરાયેલા ફરમાનને આદરપૂર્વક ગ્રહણ કરીને, બરાબર જોઈને હીરવિજ્યસૂરિજીએ ફરમાનના રહસ્યને જાણી લીધું કે “બાદશાહ મારી જેમ કોઈ પણ રીતે વિજયસેનસૂરિજીને જોવાને ઇચ્છે છે.” આમ વિચારીને સર્વવૃત્તાંત સેનસૂરીને કહ્યો. છે ૨૮૯ गुरोरुपादाय रहस्यविद्यां शिक्षां च साक्षात्किमुदसिद्धिम् । कम्माङ्गजातव्रतिचक्रवर्ती क्रमाच्चलल्लभपुरं बभाज ॥ २९० ॥ कम्मानाम्नः साधोरङ्गजातो नन्दनः स एव व्रतिषु साधुषु मध्ये चक्रवर्ती सार्वभौमो विजयसेनसूरीन्द्रः क्रमादनुक्रमेण ग्रामानुग्रामदेशानुदेशविहारपरिपाटया चलन प्रतिष्ठमानः लाभपुरं लाहोरनगरं बभाज भजते स्म । लाभपुरनगरं गतवानित्ययः । किं कृत्वा । गरोहीरविजयसूरे रहस्यस्योपनिषदो विद्यां पराज्ञातजैनमन्त्रान् च पुनः शिक्षा हितमतिम् । उत्प्रेक्ष्यते-साक्षात्प्रत्यक्षेण किमुदसिद्धिमुत्तरकालोत्पन्न सिद्धिमिव ॥ બ્લેકાર્થ સાધુઓમાં ચકવત સમાન કમાશ્રેષ્ઠાના પુત્ર વિજયસેનસૂરિજી ભવિષ્યમાં પ્રાપ્ત થનારી જાણે સિદ્ધિ ન હોય તેવી ગુરૂદેવની હિતશિક્ષા ગ્રહણ કરીને ગ્રામાનુગ્રામ વિહાર કરતા અનુક્રમે “લાહેર નગરમાં પધાર્યા. ૨૯૦ निर्ग्रन्थनाथः स विधाय गोष्ठी संप्रीणयामास महीमहेन्द्रम् । वाङनामपीयूषरसाभिवर्षी नाहादकः कस्य कुमुद्वतीशः ॥ २९१ ।। स निग्रन्थनाथो विजयसेनसरिः महीमहेन्द्रमकब्बरं संप्रीणयामास प्रहादयांचक्रिवान् " समतोषयत् । 'प्रीणाति प्रीणयति पृणातीति प्रीणनार्थाः स्युः' इति क्रियाकलापे । समु. पसर्गः । पञ्चमीस्तुतौ यथा-'संप्रीणन्सच्चकोराशिवतिलकसमः कौशिकानन्दिमूर्तिः' इति । किं कृत्वा । गोष्ठी धर्मतत्ववाताँ विधाय कृत्वा । किंभूतः सः । वाग्वाण्येव नाम या तादृशो यः पीयूषरसः सुधाद्रवजलं वा अभिवर्ष तीत्येव शीलः । युक्तोऽयमर्थः । कुमुद्रतीशचन्द्रः कस्य नालादकः स्यात् । अपि तु सर्वस्यापि प्रमोदकारी भवत्येव ।
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy