SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीमद् — देवविमलगणि-- विरचितम् । हीर सौभाग्य- महाकाव्यम् स्वोपज्ञया व्याख्यया समलङ्कृतम् । गूर्जरभाषानुवाद -- सुशोभितम् । द्वितीय भाग : 5 नवमः सर्गः । अथ सा त्रिदशी सूरिपुरहूतपुरो व्यभात् । मुक्तिसीमन्तिनीमुक्तदूतीय विवरीषया ॥ १ ॥ अथ ध्यानविधानसमये पुरः प्रत्यक्षागमनानन्तरं सा पूर्वव्यावर्णितस्वरूपा त्रिदशी शासनदेवता सूरिषु पुरहूतः पुरंदरो हीर विजयसूरीन्द्रस्तस्य पुरोऽभ्यासे व्यभाद्विभाति स्म उत्प्रेक्ष्यते-- मुक्तिः सिद्धिरेव सीमन्तिनी अत्रार्थात्स्वयं वरवनिता अथ वा कामुकी अन्या सामान्या वशा तया मुक्ता प्रेषिता दूती शासनहारिकेव । ' शासनहारिणा हरेः' इति रघौ । किं चिकीर्षया । विशेषेण महामहपुरःसरं वरीतुं पाणिं गृहीतुमिच्छया परिणयनाभिलाषेण ॥ શ્લેાકા ત્યારબાદ આચાય પુરંદરની આગળ પ્રત્યક્ષ થયેલી શાસનદેવી, મહેાત્સવ પૂર્વોક પરણવાની અભિલાષાથી મુકિતરૂપી સ્ત્રીએ મેાકલેલી જાણે ક્રૂતી (સ ંદેશવાહિકા) ન હોય तेवी शोले छे. ॥१॥ वाग्विलासैः सृजन्तीव हारहूरावहेलनाम् । तृणतां च नयन्तीव निकणं वेणुवीणयोः ॥ २ ॥ पिकीव पञ्चमोद्गारमृतोः सख्युर्मनोभ्रुवः । गीर्वाणगृहिणी वाणी श्रमणेन्दोः पुरोऽग्रहीत् ॥३॥ सा गीर्वाणगृहिणी शासनसुरी श्रमणेन्दोर्मुमुक्षुक्षणदारमणस्य पुरः पुरस्ताद्वाणीं वाचमग्रीज्जग्राह । वचनमुवाचेत्यर्थः । केव । पिकीव । यथा कोकिला मनोभुवः स्मरस्य सख्युमिंत्रस्य ऋतोर्वसन्तस्य । 'सखा रतीशस्य ऋतुर्यथा वनम्' इति नैषधे । तथा 'जयति मधुसहायः सर्वसंसारवल्ली' इति चम्पूकथायाम् । पुरः अग्रे पञ्चमोद्वारं पञ्चमनाम्रा श्रीराग - वसन्तराग पञ्चमराग- भैरवराग - मेघमल्हारराग- नट्टनारायणराग - पतेषु षट्स्वपि रागेषु प्रायो विलासिनां पुंसां पञ्चमरागो वल्लभः स्यात् । अतः पञ्चमनाम्नी रागस्योद्गार
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy