________________
२८
सर्ग ४ श्लो० १४२-१४३] हीरसौभाग्यम् न्याय्या नासौ मयातिक्रमितुमिह जगत्सर्गभङ्गीव्यवस्था ।
शक्ति शब्द ग्रहीतुं किमिति स कृतवानेव तदृष्टिसर्गे ॥१४२॥
स जगत्सृष्टिनिर्माणकर्मकर्मठत्वेन प्रसिद्धः शतानि शतसंख्याकानि दलानि पत्राणि यत्र तादृशं 'परं शतसहस्राभ्यां पत्र राजीवपुष्करे' इति हैमीवचनात् कमल निलय गृह यस्य । 'ताम्यंस्तामरसान्तरालवसतिर्देवः स्वयंभूरभूत्' इति खण्डप्रशस्तौ ब्रह्मा तट्ट. टिसर्गे तेषां नागेन्द्राणां दृष्टीनां लोचनानां सर्गे सृष्टी निर्माण एव । उत्प्रेक्ष्यते- इति हेतोः किमु शब्दं ग्रहीतुं श्रोतुमित्यर्थः । शक्ति सामर्थ्य कृतवानिव । दृक्कर्णाः कृता इत्यर्थः । इति किम् । यदिह जगति असौ मत्कृता जगतो विश्वस्य सर्गस्य सृष्टेभङ्गी रचना तस्य व्यवस्था स्थापना परिपाटी वा मयैव ब्रह्मणा क; अतिक्रमितुमुल्लङ्घयितुं न न्याय्या न युक्तिमती उचिता । योग्येति यावत् । ब्रह्मा किं चिकीर्षः । तां कर्णसृष्टि चिकीर्षुः कर्तुमिच्छुः । अश्रोत्रैः श्रवणरहितैर्भुजगपरिवृढेर्नागनायकैः शब्दाधिष्ठानानां कर्णानाम् । 'श्रुतौ श्रवः शब्दाधिष्ठाना पेंजूषमहानादध्वनिग्रहाः। श्रोत्र श्रवण च' इति हैम्याम् । सृष्टयै नवीननिर्माणाय याचितोऽभ्यर्थितः सन् । किंभूतैनांगेन्द्रः किं कर्तुकामः। यस्य श्रीआनन्दविमलसूरेजगद्भिस्तात्स्थ्यात्तदव्यपदेश इति न्यायाजगतां जनैः सुरासुर नागनागरकिंनरविद्याधरसिद्धसमाजमिथुनैः सानन्द गीतां मधुरध्वनिभिर्गानगोचरीकृतां कीर्ति श्रोतुकामैराकर्णयितुमभिलषद्भिः॥
કલેકાર્થ સુર, અસુર માનવ, ગાંધર્વ અને વિદ્યાધર આદિ યુગલેવડે ઉત્સાહપૂર્વક ગવાઈ રહેલી આનંદવિમલસૂરિની કીર્તિને સંભળવાની ઈચ્છાવાળા, કાન વિનાના નાગેન્દ્રોએ શતપત્રી કમલના સ્થાનવાળા જગત બ્રહ્મા પાસે પ્રાર્થના કરી કે : “અમારી કર્ણષ્ટિને બનાવી આપો.” ત્યારે બ્રહ્માએ કહ્યું કે, “મારાથી નિર્માણ કરાયેલી આ જગતસૃષ્ટિની વ્યવસ્થાને ઉલ્લંઘન કરવી તે મારા માટે જરાય ગ્ય નથી, પરંતુ નાગેન્દ્રોની પ્રાર્થનાથી બ્રહ્માએ નાગેન્દ્રોને દષ્ટિથી જ શબ્દ સાંભળવાની શક્તિ આપી. અર્થાત સૂરિજીના ગુણ સાંભળવા માટે જ જાણે બ્રહ્માએ નાગેન્દ્રોને “દફકર્ણ બનાવ્યા ન હોય ! ૧૪રા
भूरेषा किमु चन्द्रचन्द्रनरसैरालिप्यते सर्वतो ।
दुग्धाब्धिप्रसरत्तरङ्गितपयःपूरैरिवाप्लाव्यते ॥ क्षोदैमौक्तिकविलीनतुहिनैः कुन्दैरुतापूर्यते ।
यत्कीर्ति प्रस्तां विभाव्य विबुधैरित्यन्तरारेक्यते ॥१४३।।
यस्यानन्दविमलसूरेः प्रसृतां भूमण्डले विस्तृतां कीर्ति विभाव्यालोक्य विबुधैः पण्डितैरित्यमुना प्रकारेण अन्तश्चित्तमध्ये आरेक्यते विचार्यते। 'रेका शकुछ शङ्कायाम्' इत्यस्य धातोः प्रयोगः । इति किम् । एषा भूर्भूमी । उत्प्रेक्ष्यते-चन्द्रचन्दनरसै कर्पराक