________________
जैत्रस्य तनयं बाल-मपि हत्वातिनिर्दयः । वालयित्वा निजं द्रव्यं, पुनः स्वं नगरं ययौ ।।७।।
बालहत्याविधायित्वा-तत्र राज्ञा स तर्जितः ।. वैराग्यात्तापसीं दीक्षा-मादाय विदधे तपः ।।८।।
जैत्रोऽथ जीविताकाङ्क्षी, तदानीं सङ्कटात्ततः । नंष्ट्वा कथञ्चिदप्यागा-दुरङ्गबलपत्तने ।।९।।
तत्र निःशम्बलत्वेन, दुःखी दारिद्र्यपीडितः । तस्थौ कर्मकरत्वेन ओढरव्यवहारिणः ।।१०।।
श्रीयशोभद्रसूरीणा-मुपदेशमनारतम् ।' - श्रावं श्रावमसौ जज्ञे, सधर्महदयो मनाक् ।।११।।
न हन्मि जन्तूनिमन्तू-त्र जल्पाम्यनृतं तथा । . इत्याद्यभिग्रहांस्तस्य, पार्श्वे जग्राह स क्रमात् ।।१२।।
अन्यदा वार्षिक पर्व-ण्योढरोऽभ्यचितुं जिनम् । सार्द्ध जैत्रेण सद्वस्त्रो, जगाम जिनमन्दिरे ।।१३।।
तत्र पूजापरान्वस्त्रा-भरणाद्यैरलङ्कृतान् । लोकानालोक्य जैत्रोऽपि, मनस्येवमचिन्तयत् ।।१४।। अहो ! प्राक्पुण्ययोगेन, भवेऽत्र सुभगा अमी । आगाम्यपि भवो ह्येषां, भावी भद्रङ्करः खलु ।।१५।।
१. “गाद् दूरमचलपत्तने" इत्यपि ।।
२८ उपदेश सप्तति