________________
सौवर्णिकानां षड्लक्षी, तदानीमस्य दीयताम् । श्रुत्वेति देवीवाक्यं तैः, तस्याग्रे तन्निवेदितम् ।।१८।।
सोऽप्याह निजपुण्यस्य, न लेशमपि वो ददे । कोट्यंशेऽपि भवद्द्रव्यं, मम दानस्य नार्घति ।। १९ ।।
ततः स सत्त्वमालम्ब्य, चचाल स्वपुरं प्रति । स्वपुराऽऽसन्ननद्यां च क्रमादेत्य व्यचिन्तयत् ।। २० ।।
अहो ! मे जैनधर्म्माप्त्या, नित्यं तुष्टस्य किं धनैः । परं मदीया गृहिणी, करोत्यातिं करोमि किम् ? ।। २१ । ।
तत्र मां प्रेषितवती, या महद्भिर्मनोरथेः ।' सा दृट्वेदृगवस्थं मां, मृतकल्पा भविष्यति ।। २२ ।।
तदेतानुज्वलान्वृत्तान्, गृहीत्वा कर्करानपि । ग्रन्थौ निबध्य गच्छामि, गृहे सा प्रीयते यथा ।। २३ ।।
विमृश्येति महान्तं तत्, पोट्टलं न्यस्य मस्तके । आगतो मन्दिरे श्रेष्ठी, साऽपि संमुखमागमत् ।।२४।।
वित्तेन पूरितो भर्त्ता, प्राप्त इत्युल्लसन्मुखी । उत्तार्य मस्तकाद् ग्रन्थिं, मुमोच क्वाऽपि कोणके ।। २५ ।।
पूजासत्पात्रदानादि-धर्म्ममाहात्म्ययोगतः ।
अथ ते कर्कराः सर्व्वे, जात्यरत्नानि जज्ञिरे ।। २६ ।।
३०१ उपदेश सप्तति