________________
उपलक्ष्य निजं हार-मारक्षेभ्यस्तमार्प्पयत् ।
तेऽपि वध्यभुवं निन्यु-स्तं चौरं सर्वसाक्षिकम् ।।२५।।
तं तथाऽवस्थितं श्रेष्ठी, दृष्ट्वा सदयमानसः । आरक्षानब्रवीदेनं, भो भोः ! मुञ्चत मुञ्चत ।। २६ ।
मयैवाऽस्याऽर्पितो हारो, न विदन्ति सुतादयः । श्रेष्ठी नासत्यवक्तेति, विमुक्तस्तैः स तस्करः ।। २७ ।।
विजने श्रेष्ठिना शिक्षा, तस्य दत्तेति भोस्त्वया । नाऽकर्त्तव्ये मतिः कार्या, मानुष्यं दुर्लभं खलु ।।२८।।
तस्करस्तस्य सौजन्य - मुपकारं च संस्मरन् । प्रव्रज्याऽनशनं कृत्वा, सौधर्मे त्रिदशोऽभवत् ।। २९ ।।
सुचिरं निरतीचार- पौषधव्रतपालनात् । सश्रेष्ठी सचिवो जातो, धर्मवान् भाग्यभासुरः ।।३०।।
देवेनाऽवधिना ज्ञात्वा प्राग्भवोपकृतं तव । सङ्कटे पतितस्याशु, दत्तश्चिन्तामणिस्तदा ।। ३१ । ।
अत्रान्तरे स देवोऽपि तत्रैत्योवाच मन्त्रिणम् । किं ते करोमि ? सोऽप्याह, यात्रां सर्वत्र कारय ।। ३२ ।।
ततश्च तेन देवेन सह नन्दीश्वरादिषु । यात्रां कृत्वा वलमानः, प्राप्तः स लवणोपरि । । ३३ ॥
२९७ उपदेश सप्तति