________________
त्यक्तद्वेषो मनःशुद्ध-भावेन मुनिभाषितम् । अनुष्ठानमयं चक्रे, नृपादेरपि निर्भयः ।।२४।।
वावाराणं गुरुओ, मणवावारो जिणेहिं पन्नत्तो । जो नेइ सत्तमीए, अहवा मुक्खं पराणेइ ।।१।।
तदा च लघुकर्मत्वा-त्तस्य केवलमुज्वलम् । बभूव महिमानं च, चक्रुस्तस्य सुरेश्वराः ।।२५।।
सहस्रपत्रसौवर्ण-कमले निषसाद सः । तदने देशनां चक्रे, देवदत्तवेषभृत् ।।२६।।
अथ प्राप्तो नृपस्तंत्र, तद्वृत्तं तादृशं पुनः । निरीक्ष्य विस्मितोऽत्यन्त-महो ! कर्मविचित्रता ।।२७।।
केवली प्राह राजेन्द्र !, पश्य सामायिकव्रतम् । . . यस्य जातं क्षणाद्धेऽपि, फलं लोकोत्तरं मम ।।२८।। ,
एवं प्रबोध्य राजादीन, लोप्नं सर्वं निवेद्य च । लोकोपकृतये चक्रे, विहारं वसुधातले ।।२९।।
एवं स केसरिमुनिः प्रतिबोध्य भूरि-कालं जनान् विदलिताऽखिलकर्मजालः । प्राप्तो यदुझपदवीं तदिदं फलं हि, सामायिकव्रतभवं विमृशन्तु सन्तः ।।
।। इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारे द्वादश उपदेशः ।।१२।।
२८९ उपदेश सप्तति