________________
मौलौ करण्डिकां कृत्वा, जिनार्द्धायाः स धार्मिकः । नगरान्निर्ययौ पुण्य-समूहो मूर्तिमानिव ।। १८ ।।
प्रतोली यावदायात - स्तावत्तत्पुरवासिनः । अपुत्रस्य क्षितिपतेरासीदाकस्मिकी मृतिः ।। १९ ।।
इतश्च पञ्चदिव्यानि, सज्जितानि नियोगिभिः । साम्राज्यं च प्रदत्तं तै - स्तस्यैव श्रेष्ठिनस्तदा ।। २० ।।
स प्राह नाहं राज्याह-भिषेकेन सृतं मम । तदा च देवीवाग् जाता, तव भाग्यमहो ! महत् ।।२१।।
माकार्षीः प्रतिषेधं तन्नाऽन्यथा भवितव्यता 1 श्रेष्ठयपि प्राह यद्येवं तदा शृणुत मद्वचः ।। २२ ।।
पूर्व श्रीजिनबिम्बस्य, कुरुध्वमभिषेचनम् । पश्चान्ममेति तेऽप्येव-मकार्षुर्हर्षपूरिताः ।। २३ । ।
एवं च प्राप्तसाम्राज्य:, स श्रेष्ठी सपरिच्छदः । नृपसौधमलञ्चक्रे, पुरस्त्रीकृतमङ्गलः ||२४||
न्यस्य सिंहासने मुख्ये, जिनेन्द्रप्रतिमामौ । स्वयं तत्पादपीठस्थो, राजकार्याण्यसाधयत् ।।२५।।
रत्नवृष्टिं तदा चक्रुः, सम्यग्दृष्टिसुरा वराः । एकछत्र जिनस्यैव, स राज्यं समसूत्रयत् ।।२६।।
२८० उपदेश M